॥श्री ललितास्तवरत्न पारायण क्रमः ॥
वन्दे गजेन्द्रवदनं वामाङ्कारूढवल्लभाश्लिष्टम् ।
कुङ्कुमपरागशोणं कुवल्यिनीजार-कोरकापीडम् ॥
अस्य श्री ललितास्तवरत्नमालामहामन्त्रस्य ।
भगवान् श्रीदुर्वासा ऋषिः । पंक्तिः छन्दः ।
सपरिवारश्रीललितामहात्रिपुरसुन्दरी देवता ॥
ऐं तापिञ्चमेचकाभां तालीदलरचित कर्णताटङ्काम् ।
ताम्बूलपूरितमुखीं ताम्राधरबिंबदरहासाम् ॥इति बीजम् ॥
सौः धूर्तानामतिदूरा वार्ता शेषावलग्न कमनीया ।
आर्तालीशुभदात्री वार्ताली भवतु वाञ्चितार्थाय ॥इति शक्तिः ॥
क्लीं आदिमरसावलम्बां अनिदंप्रथमाक्तिवल्लरीकलिकाम् ।
आब्रह्मकीटजननींमन्तः कलयामि सुन्दरीमनिशम् ॥इति कीलकम् ॥
मम सपरिवारश्रीललितामहात्रिपुरसुन्दरीप्रसादसिद्धिद्वारा
सर्वाभीष्टसिद्ध्यर्थे पारायणे विनियोगः ।
कुङ्कुमललामभास्वन्निटिलां कुटिलतरछिल्लिका युगलाम् ।
नालीकतुल्यनयनां नासाञ्चलनटितमौक्तिकाभरणाम् ॥
अङ्गुष्टाभ्यां नमः । हृदयाय नमः ॥१॥
अङ्कुरित मन्दहासां अरुणाधरकान्तिविजितबिम्बाभाम् ।
कस्तूरीमकरीयुतकपोलसंक्रान्तकनकताटङ्काम् ॥
तर्जनीभ्यां नमः । शिरसे स्वाहा ॥२॥
कर्पूरसान्द्रवीटीकबलितवदनारविन्दकमनीयाम् ।
कम्बुसहोदरकण्ठप्रलम्बमानाच्छमौक्तिककलापाम् ॥
मध्यमाभ्यां नमः । शिखायै वषट् ॥३॥
कल्हारदामकोमल भुजयुगल स्फुरित रत्नकेयूराम् ।
करपद्ममूलविलसत्काञ्चनमयकटकवलयसंदोहाम् ॥
अनामिकाभ्यां नमः । कवचाय हुं ॥४॥
पाणिचतुष्टयविलसत्पाशाङ्कुशपुण्ड्रचापपुष्पास्राम् ।
कूलङ्कषकुचशिखरां कुङ्कुमकर्दमितरत्नकूर्पासाम् ॥
कनिष्टिकाभ्यां नमः । नेत्रत्रयाय वौषट् ॥५॥
कमलभवकञ्जलोचनकिरीटरत्नांशुरञ्जितपदाब्जाम् ।
उन्मस्तकानुकम्पामुत्तरलापाङ्कपोषितानङ्गाम् ॥
करतलकरपृष्टाभ्यां नमः । अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ॥६॥
॥ध्यानम् ॥
आदिमरसावलम्बाम्अनिदंप्रथमोक्तिवल्लरीकलिकाम् ।
आब्रह्मकीटजननीं अन्तः कलयामि सुन्दरीमनिशम् ॥१॥
नतजनसुलभाय नमो नालीकसनाभिलोचनाय नमः ।
नन्दितगिरिशाय नमो महसे नवनीपपाटलाय नमः ॥२॥
पवनमयि पावकमयि क्षोणीमयि गगनमयि कृपीटमयि ।
रविमयि शशिमयि दिङ्मयि समयमयि प्राणमयि शिवे पाहि ॥३॥
कालि कपालिनि शूलिनि भैरवि मातङ्गि पञ्चमि त्रिपुरे ।
वाग्देवि विन्ध्यवासिनि बाले भुवनेशि पालय चिरं माम् ॥४॥
लमित्यादि पञ्चपूजा ॥
ततः पारायणान्तरमं हृदयादिन्यासं विधाय ध्यात्वा
पञ्चोपचारेः संपूजयेत् ॥
॥महर्षिदुर्वासः प्रणीतं श्री ललितास्तवरत्नम् ॥
॥आर्या द्विशती ॥

कुङ्कुमपरागशोणं कुवलयिनीजार-कोरकापीडम् ॥१॥
स जयति सुवर्णशैलः सकलजगच्चक्रसङ्घटितमूर्तिः ।
काञ्चन निकुञ्जवाटी कन्दलदमरीप्रपञ्च संगीतः ॥२॥
हरिहयनैरृतमारुतहरितामन्तेष्ववस्थितं तस्य ।
विनुमः सानुत्रितयं विधिहरिगौरीशविष्टपाधारम् ॥३॥
मध्ये पुनर्मनोहररत्नरुचिस्तबक रञ्जितदिगन्तम् ।
उपरि चतुः शतयोजनमुत्तङ्ग श्रृङ्गंपुङ्गवमुपासे ॥४॥
तत्र चतुः शतयोजनपरिणाहं देव शिल्पिना रचितम् ।
नानासालमनोज्ञं नमाम्यहं नगरं आदिविद्यायाः ॥५॥
प्रथमं सहस्रपूर्वक षट्शतसंख्याक योजनं परितः ।
वलयीकृतस्वगात्रं वरणं शरणं व्रजाम्ययो रूपम् ॥६॥
तस्योत्तरे समीरणयोजनदूरे तरङ्गितच्छायः ।
घटयतु मुदं द्वितीयो घण्टास्तनसार निर्मितः सालः ॥७॥
उभयोरन्तरसीमन्युद्दाम भ्रमररञ्जितोदारम् ।
उपवमनमुपास्महे वयमूरीकृत मन्दमारुत स्यन्दम् ॥८॥
आलिङ्ग्य भद्रकाळीमासीनस्तत्र हरिशिलाश्यामाम् ।
मनसि महाकालो मे विहरतु मधुपानविभ्रमन्नेत्रः ॥९॥
तार्त्तीयीको वरणस्तस्योत्तरसीम्नि वातयोजनतः ।
ताम्रेण रचितमूर्तिस्तनुतादा चन्द्रतारकं भद्रम् ॥१०॥
मध्ये तयोश्च मणिमयपल्लवशाखा प्रसूनपक्ष्मलिताम् ।
कल्पानोकहवाटीं कलये मकरन्दपङ्किलावालाम् ॥११॥
तत्र मधुमाधवश्रीतरुणीभ्यां तरलदृक्चकोराभ्याम् ।
आलिङ्गितोऽवतान्मामनिशं प्रथमर्तुरात्तपुष्पास्रः ॥१२॥
नमत तदुत्तरभागे नाकिपथोल्लङ्घि श्रृङ्गसंघातम् ।
सीसाकृतिं तुरीयं सितकिरणालोकनिर्मलं सालम् ॥१३॥
सालद्वयान्तराले सरलालिकपोत-चाटुसुभगायाम् ।
सन्तानवाटिकायां सक्तं चेतोऽस्तु सततमस्माकम् ॥१४॥
तत्र तपनादिरूक्षः साम्राज्ञीचरण सान्द्रितस्वान्तः ।
शुक्र शुचिश्रीसहितो ग्रीष्मर्तुर्दिशतु कीर्तिमाकल्पम् ॥१५॥
उत्तरसीमनि तस्योन्नतशिखरोत्कम्पि हाटकपताकः ।
प्रकटयतु पञ्चमो नः प्राकारः कुशलमारकूटमयः ॥१६॥
प्राकारयोश्च मध्ये पल्लवितान्यभृतपञ्चमोन्मेषा ।
हरिचन्दनद्रुवाटीहरतादामूलमस्मदनुतापम् ॥१७॥
तत्र नभश्री मुख्यैस्तरुणी वर्गैः समन्वितः परितः ।
वज्राट्टऋहासमुखरो वाञ्छापूर्तिं तनोतु वर्षर्तुः ॥१८॥
मारुतयोजनदूरे महनीयस्तस्य चोत्तरे भागे ।
भद्रं कृषीष्ट षष्ठः प्राकारः पञ्चलोहधातुमयः ॥१९॥
अनयोर्मध्ये संततमङ्कूरद्दिव्यकुसुमगन्धायाम् ।
मन्दारवाटिकायां मानसमङ्गीकरोतु मे विहृतिम् ॥२०॥
तस्यामिषोर्जलक्ष्मीतरुणीभ्यां शरदृतुः सदा सहितः ।
अभ्यर्चयन् स जीयादम्बामामोदमेदुरैः कुसुमैः ॥२१॥
तस्यर्षिसंख्ययोजनदूरे देदीप्यमानशृङ्गौघः ।
कलधौतकलितमूर्तिः कल्याणं दिशतु सप्तमः सालः ॥२२॥
मध्ये तयोर्मरुत्पथ लङ्घिथविट-पाग्रविरुतकलकण्ठा ।
श्रीपारिजातवाटी श्रियमनिशं दिशतु शीतलोद्देशा ॥२३॥
तस्यामतिप्रियाभ्यां सहखेलन् सहसहस्य लक्ष्मीभ्याम् ।
सामन्तो झषकेतोर्हेमन्तो भवतु हेमवृद्ध्यै नः ॥२४॥
उत्तरतस्तस्य महानुद्भट हुत्भुक्षि स्वारुणः मयूखः ।
तपनीयखण्डरचितस्तनुतादायुष्यमष्टमो वरणः ॥२५॥
कादम्बविपिनवाटीमनयोर्मध्यभुवि कल्पितावासाम् ।
कलयामि सूनकोरककन्दलितामोद-तुन्दिलसमीराम् ॥२६॥
तस्यामति-शिशिराकृतिरासीनस्तपतपस्यलक्ष्मीभ्याम् ।
शिवमनिशं कुरुतान्मे शिशिरर्तुः सततशीतलदिगन्तः ॥२७॥
तस्यां कदम्बवाट्यां तत्प्रसवामोदमिलित-मधुगन्धम् ।
सप्तावरणमनोज्ञं शरणं समुपैमि मन्त्रिणी-शरणम् ॥२८॥
तत्रालये विशाले तपनीयारचित-तरल-सोपाने ।
माणिक्य मण्डपान्तर्महिते सिंहासने मणीखचिते ॥२९॥
बिन्दु-त्रिपञ्च-कोण-द्विप-नृप-वसु-वेद-दल-कुरेखाढ्ये ।
चक्रे सदा निविष्टां षष्ठ्यष्टत्रिंशदक्षरेशानीम् ॥३०॥
तापिञ्छमेचकाभां तालीदलघटितकर्णताटङ्काम् ।
ताम्बूलपूरितमुखीं ताम्राधरबिम्बदृष्टदरहासाम् ॥३१॥
कुङ्कुमपङ्किलदेहां कुवलय-जीवातु-शावकावतंसाम् ।
कोकनदशोणचरणां कोकिल-निक्वाण-कोमलालापाम् ॥३२॥
वामाङ्गगलितचूलीं वनमाल्यकदम्बमालिकाभरणाम् ।
मुक्ताललन्तिकाञ्चित मुग्धालिक-मिलित-चित्रकोदाराम् ॥३३॥
करविधृतकीरशावक-कल-निनद-व्यक्त-निखिल-निगमार्थाम् ।
वामकुचसङ्गिवीणावादनसौख्यार्धमीलिताक्षियुगाम् ॥३४॥
आपाटलांशुकधरां आदिरसोन्मेषवासित कटाक्षाम् ।
आम्नायसारगुलिकां आद्यां संगीतमातृकां वन्दे ॥३५॥
तस्य च सुवर्णसालस्योत्तरतस्तरुणकुङ्कुमच्छायः ।
शमयतु मम संतापं सालो नवमः स पुष्परागमयः ॥३६॥
अनयोरन्तरवसुधाः प्रणुमः प्रत्यग्रपुष्परागमयीः ।
सिंहासनेश्वरीमनुचिन्तन-निस्तन्द्र-सिद्धनीरन्ध्राः ॥३७॥
तत्सालोत्तरदेशे तरुणजपा-किरण-धोरणी-शोणः ।
प्रशमयतु पद्मरागप्राकारो मम पराभवं दशमः ॥३८॥
अन्तरभूकृतवासाननयोरपनीत चित्तवैमत्यान् ।
चक्रेशीपदभक्तांश्चारणवर्गानहर्निशं कलये ॥३९॥
सारङ्गवाहयोजनदूरेऽऽसङ्घटित केतनस्तस्य ।
गोमेदकेन रचितो गोपायतु मां समुन्नतः सालः ॥४०॥
वप्रद्वयान्तरोर्व्यां वटुकैर्विविधैश्च योगिनी बृन्दैः ।
सततं समर्चितायाः सङ्कर्षिण्याः प्रणौमि चरणाब्जम् ॥४१॥
तापसयोजनदूरे तस्य समुत्तुङ्गः गोपुरोपेतः ।
वाञ्छापूर्त्यै भवताद्वज्रमणी-निकर-निर्मितो वप्रः ॥४२॥
वरणद्वितयान्तरतो वासजुषो विहितमधुरसास्वादाः ।
रम्भादिविबुधवेश्याः रचयन्तु महान्तमस्मदानन्दम् ॥४३॥
तत्र सदा प्रवहन्ति तटिनी वज्राभिधा चिरं जीयात् ।
चटुलोर्मिजालनृत्यत् कलहंसीकुलकलक्वणितपुष्टा ॥४४॥
रोधसि तस्या रुचिरे वज्रेशी जयति वज्रभूषाढ्या ।
वज्रप्रदानतोषितवज्रिमुखत्रिदश-विनुतचारित्रा ॥४५॥
तस्योदीच्यां हरिति स्तवकितसुषमावलीढ-वियदन्तः ।
वैडूर्यरत्नरचितो वैमल्यं दिशतु चेतसो वरणः ॥४६॥
अधिमध्यमेतयोः पुनरम्बाचरणावलम्बितस्वान्ताम् ।
कार्कोटकादिनागान् कलयामः किं च बलिमुखान्दनुजान् ॥४७॥
गन्धवहसंख्य-योजनदूरे गगनोर्ध्वजाङ्घिकस्तस्य ।
वासवमणिप्रणीतो वरणो वर्धयतु वैदुषीं विशदाम् ॥४८॥
मध्यक्षोण्यामनयोर्महेन्द्रनीलात्मकानि च सरांसि ।
शातोदरी सहायान्भूपालानपि पुनः पुनः प्रणुमः ॥४९॥
आशुगयोजनदूरे तस्योर्ध्वं कान्तिधवलितदिगन्तः ।
मुक्ताविरचितगात्रो मुहुरस्माकं मुदे भवतु वप्रः ॥५०॥
आवृत्त्योरधिमध्यं पूर्वस्यां दिशि पुरन्दरः श्रीमान् ।
अभ्रमुविटाधिरूढो विभ्रममस्माकमनिशमातनुतात् ॥५१॥
तत्कोणे व्यजनस्रुक्तोमरपात्रस्रुवान्न शक्तिधरः ।
स्वाहास्वधासमेतः सुखयतु मां हव्यवाहनः सुचिरम् ॥५२॥
दक्षिणदिगन्तराले दण्डधरो नीलनीरदच्छायः ।
त्रिपुरपदाब्जभक्तस्तिरयतु मम निखिलमंहंसां निकरम् ॥५३॥
तस्यैव पश्चिमायां दिशि दलितेन्दीवर प्रभाश्यामः ।
खेटासि यष्टिधारी खेदानपनयतु यातुधानो मे ॥५४॥
तस्या उत्तरदेशे धवलाङ्गो विपुलझष वरारूढः ।
पाशायुधात्तपाणिः पाशी विदलयतु पाशजालानि ॥५५॥
वन्दे तदुत्तरहरित्कोणे वायुं चमूरूवरवाहम् ।
कोरकित तत्वबोधान्गोरक्ष प्रमुख योगिनोऽपि मुहुः ॥५६॥
तरुणीरिडाप्रधानास्तिस्रो वातस्य तस्य कृतवासाः ।
प्रत्यग्रकापिशायनपान-परिभ्रान्त-लोचनाः कलये ॥५७॥
तल्लोकपूर्वभागे धनदं ध्यायामि शेवधिकुलेशम् ।
अपि माणिभद्रमुख्यानम्बाचरणावलम्बिनो यक्षान् ॥५८॥
तस्यैव पूर्वसीमनि तपनीयारचितगोपुरे नगरे ।
कात्यायनीसहायं कलये शीतांशुखण्डचूडालम् ॥५९॥
तत्पुरुषोडशवरणस्थलभाजस्तरुणचन्द्रचूडालान् ।
रुद्राध्याये पठितान् रुद्राणीसहचरान् भजे रुद्रान् ॥६०॥
पवमानसंख्ययोजनदूरे बालतृण्मेचकस्तस्य ।
सालो मरकतरचितः संपदमचलां श्रियं च पुष्णातु ॥६१॥
आवृति युग्मान्तरतो हरितमणी-निवहमेचके देशे ।
हाटक-ताली-विपिनं हालाघटघटित-विटपमाकलये ॥६२॥
तत्रैव मन्त्रिणीगृहपरिणाहं तरलकेतनं सदनम् ।
मरकतसौधमनोज्ञं दद्यादायूषि दण्डनाथायाः ॥६३॥
सदने तव हरिन्मणिसंघटिते मण्डपे शतस्तम्भे ।
कार्त्तस्वरमयपीठे कनकमयाम्बुरुहकर्णिकामध्ये ॥६४॥
बिन्दुत्रिकोणवर्तुलषडस्रवृत्तद्वयान्विते चक्रे ।
सञ्चारिणी दशोत्तरशतार्ण-मनुराजकमलकलहंसी ॥६५॥
कोलवदना कुशेशयनयना कोकारिमण्डितशिखण्डा ।
संतप्तकाञ्चनाभा सन्ध्यारुण-चेल-संवृत-नितम्बा ॥६६॥
हलमुसलशङ्खचक्राङ्कुशपाशाभयवरस्फुरितहस्ता ।
कूलंकषानुकम्पा कुङ्कुमजम्बालितस्तनाभोगा ॥६७॥
धूर्तानामतिदूरावार्ताशेषावलग्नकमनीया ।
आर्तालीशुभदात्री वार्ताली भवतु वाञ्छितार्थाय ॥६८॥
तस्याः परितो देवीः स्वप्नेश्युन्मत्तभैरवीमुख्याः ।
प्रणमत जम्भिन्याद्याः भैरववर्गांश्च हेतुकप्रमुखान् ॥६९॥
पूर्वोक्तसंख्ययोजनदूरे पूयांशुपाटलस्तस्य ।
विद्रावयतु मदार्तिं विद्रुमसालो विशङ्कटद्वारः ॥७०॥
आवरणयोर्महर्निशमन्तरभूमौ प्रकाशशालिन्याम् ।
आसीनमम्बुजासनमभिनवसिन्दूरगौरमहमीडे ॥७१॥
वरणस्य तस्य मारुतयोजनतो विपुलगोपुरद्वारः ।
सालो नानारत्नैः संघटिताङ्गः कृषीष्ट मदभीष्टम् ॥७२॥
अन्तरकक्ष्यामनयोरविरलशोभापिचण्डिलोद्देशाम् ।
माणिख्यमण्डपाख्यां महतीमधिहृदयमनिशमाकलये ॥७३॥
तत्र स्तिथं प्रसन्नं तरुणतमालप्रवालकिरणाभम् ।
कर्णावलम्बिकुण्डलकन्दलिताभीशुकवचितकपोलम् ॥७४॥
शोणाधरं शुचिस्मितमेणाङ्कवदनमेधमानकृपम् ।
मुग्धैणमदविशेषकमुद्रितनिटिलेन्दुरेखिका रुचिरम् ॥७५॥
नालीकदलसहोदरनयनाञ्चलघटितमनसिजाकूतम् ।
कमलाकठिणपयोधरकस्तूरी-धुसृणपङ्किलोरस्कम् ॥७६॥
चाम्पेयगन्धिकैश्यं शम्पासब्रह्मचारिकौशेयम् ।
श्रीवत्सकौस्तुभधरं श्रितजनरक्षाधुरीणचरणाब्जम् ॥७७॥
कम्बुसुदर्शनविलसत्-करपद्मं कण्ठलोलवनमालम् ।
मुचुकुन्दमोक्षफलदं मुकुन्दमानन्दकन्दमवलम्बे ॥७८॥
तद्वरणोत्तरभागे तारापति-बिम्बचुम्बिनिजश्रृङ्गः ।
विविधमणी-गणघटितो वितरतु सालो विनिर्मलां धिषणाम् ॥७९॥
प्राकारद्वितयान्तरकक्ष्यां पृथुरत्ननिकर-सङ्कीर्णाम् ।
नमत सहस्रस्तम्भकमण्डपनाम्नातिविश्रुतां भुवने ॥८०॥
प्रणुमस्तत्र भवानीसहचरमीशानमिन्दुखण्डधरम् ।
श्रृङ्गारनायिकामनुशीलनभाजोऽपि भृङ्गिनन्दिमुखान् ॥८१॥
तस्यैणवाहयोजनदूरे वन्दे मनोमयं वप्रम् ।
अङ्कूरन्मणिकिरणामन्तरकक्ष्यां च निर्मलामनयोः ॥८२॥
तत्रैवामृतवापीं तरलतरङ्गावलीढतटयुग्माम् ।
मुक्तामय-कलहंसी-मुद्रित-कनकारविन्दसन्दोहाम् ॥८३॥
शक्रोपलमयभृङ्गीसंगीतोन्मेषघोषितदिगन्ताम् ।
काञ्चनमयाङ्गविलसत्कारण्डवषण्ड-ताण्डवमनोज्ञाम् ॥८४॥
कुरुविन्दात्म-कहल्लक-कोरक-सुषमा-समूह-पाटलिताम् ।
कलये सुधास्वरूपां कन्दलितामन्दकैरवामोदाम् ॥८५॥
तद्वापिकान्तराले तरले मणिपोतसीम्नि विहरन्तीम् ।
सिन्दूर-पाटलाङ्गीं सितकिरणाङ्कूरकल्पितवतंसाम् ॥८६॥
पर्वेन्दुबिम्बवदनां पल्लवशोणाधरस्फुरितहासाम् ।
कुटिलकवरीं कुरङ्गीशिशुनयनां कुण्डलस्फुरितगण्डाम् ॥८७॥
निकटस्थपोतनिलयाः शक्तीः शयविधृतहेमश्रृङ्गजलैः ।
परिषिञ्चन्तीं परितस्तारां तारुण्यगर्वितां वन्दे ॥८८॥
प्रागुक्तसङ्ख्ययोजनदूरे प्रणमामि बुद्धिमयसालम् ।
अनयोरन्तरकक्ष्यांअष्टापदपुष्टमेदिनीं रुचिराम् ॥८९॥
कादम्बरीनिधानां कलयाम्यानन्दवापिकां तस्याम् ।
शोणाश्मनिवहनिर्मितसोपानश्रेणिशोभमानतटीम् ॥९०॥
माणिक्यतरणिनिलयां मध्ये तस्या मदारुणकपोलाम् ।
अमृतेशीत्यभिधानामन्तः कलयामि वारुणीं देवीम् ॥९१॥
सौवर्णकेनिपातनहस्ताः सौन्दर्यगर्विता देव्यः ।
तत्पुरतः स्थितिभाजो वितरन्त्वस्माकमायुषो वृद्धिम् ॥९२॥
तस्य पृषदश्वयोजनदूरेऽहंकारसालमतितुङ्गम् ।
वन्दे तयोश्च मध्ये कक्ष्यां वलमानमलयपवमानाम् ॥९३॥
विनुमो विमर्शवापीं सौषुम्नसुधास्वरूपिणीं तत्र ।
वेलातिलङ्घ्यवीचीकोलाहलभरितकूलवनवाटीम् ॥९४॥
तत्रैव सलिलमध्ये तापिञ्छदलप्रपञ्चसुषमाभाम् ।
श्यामलकञ्चुकलसितां श्यामा-विटबिम्बडम्बरहरास्याम् ॥९५॥
आभुग्नमसृणचिल्लीहसितायुग्मशरकार्मुकविलासाम् ।
मन्दस्मिताञ्चितमुखीं मणिमयताटङ्कमण्डितकपोलाम् ॥९६॥
कुरुविन्दतरणिनिलयां कुलाचलस्पर्धिकुचनमन्मध्याम् ।
कुङ्कुमविलिप्तगात्रीं कुरुकुल्लां मनसि कुर्महे सततम् ॥९७॥
तत्सालोत्तरभागे भानुमयं वप्रमाश्रये दीप्तम् ।
मध्यं च विपुलमनयोर्मन्ये विश्रान्तमातपोद्गारम् ॥९८॥
तत्र कुरुविन्दपीठे तामरसे कनककर्णिकाघटिते ।
आसीनमरुणवाससमम्लानप्रसवमालिकाभरणम् ॥९९॥
चक्षुष्मतीप्रकाशनशक्तिच्छाया-समारचितकेलिम् ।
माणिक्यमुकुटरम्यं मन्ये मार्ताण्डभैरवं हृदये ॥१००॥
इन्दुमयसालमीडे तस्योत्तरतस्तुषारगिरिगौरम् ।
अत्यन्त-शिशिरमारुतमनयोर्मध्यं च चन्द्रिकोद्गारम् ॥१०१॥
तत्र प्रकाशमानं तारानिकरैश्च (सर्वतस्सेव्यम् ) परिष्कृतोद्देशम् ।
अमृतमयकान्तिकन्दलमन्तः कलयामि कुन्दसितमिन्दुम् ॥१०२॥
श्रृङ्गारसालमीडे श्रृंगोल्लसितं तदुत्तरे भागे ।
मध्यस्थले तयोरपि महितां श्रृङ्गारपूर्विकां परिखाम् ॥१०३॥
तत्र मणिनौस्थिताभिस्तपनीयारचितश्रृङ्गहस्ताभिः ।
श्रृङ्गारदेवताभिः सहितं परिखाधिपं भजे मदनम् ॥१०४॥
श्रृङ्गारवरणवर्यस्योत्तरतः सकलविबुधसंसेव्यम् ।
चिन्तामणिगणरचितं चिन्तां दूरीकरोतु मे सदनम् ॥१०५॥
मणिसदन सालयोरधिमध्यं दशतालभूमिरुहदीर्घैः ।
पर्णैः सुवर्णवर्णैर्युक्तां काण्डैश्च योजनोत्तुङ्गैः ॥१०६॥
मृदुलैस्तालीपञ्चकमानैर्मिलितां च केसरकदम्बैः ।
सन्ततगलितमरन्दस्रोतोनिर्यन्मिलिन्दसन्दोहाम् ॥१०७॥
पाटीरपवनबालकधाटीनिर्यत्परागपिञ्जरिताम् ।
कलहंसीकुलकलकलकूलङ्कषनिनदनिचयकमनीयाम् ॥१०८॥
पद्माटवीं भजामः परिमळकल्लोलपक्ष्मलोपान्ताम् ।
देव्यर्घ्यपात्रधारी तस्याः पूर्वदिशि दशकलायुक्तः ।
वलयितमूर्तिर्भगवान्वह्निः कोशोन्नतश्चिरं पायात् ॥१०९॥
तत्राधारे देव्याः पात्रीरूपः प्रभाकरः श्रीमान् ।
द्वादशकलासमेतो ध्वान्तं मम बहुलमान्तरं भिन्द्यात् ॥११०॥
तस्मिन् दिनेशपात्रे तरङ्गितामोदममृतमयमर्घ्यम् ।
चन्द्रकलात्मकममृतं सान्द्रीकुर्यादमन्दमानन्दम् ॥१११॥
अमृते तस्मिन्नभितो विहरन्त्यो विविधतरणिभाजः ।
षोडशकलाः सुधांशोः शोकादुत्तारयन्तु मामनिशम् ॥११२॥
तत्रैव विहृतिभाजो धातृमुखानां च कारणेशानाम् ।
सृष्ट्यादिरूपिकास्ताः शमयन्त्वखिलाः कलाश्च सन्तापम् ॥११३॥
कीनाशवरुणकिन्नरराजदिगन्तेषु रत्नगेहस्य ।
कलयामि तान्यजस्रं कलयन्त्वायुष्यमर्घ्यपात्राणि ॥११४॥
पात्रस्थलस्य पुरतः पद्मारमणविधिपार्वतीशानाम् ।
भवनानि शर्मणे नो भवन्तु भासा प्रदीपितजगन्ति ॥११५॥
सदनस्यानलकोणे सततं प्रणमामि कुण्डमाग्नेयम् ।
तत्र स्थितं च वह्निं तरलशिखाजटिलमम्बिकाजनकम् ॥११६॥
तस्यासुरदिशि तादृशरत्नपरिस्फुरितपर्वनवकाढ्यम् ।
चक्रात्मकं शताङ्गं शतयोजनमुन्नतं भजे दिव्यम् ॥११७॥
तत्रैव दिशि निषण्णं तपनीयध्वजपरम्पराश्लिष्टम् ।
रथमपरं च भवान्या रचयामो मनसि रत्नमयचूडम् ॥११८॥
भवनस्य वायुभागे परिष्कृतो विविधवैजयन्तीभिः ।
रचयतु मुदं रथेन्द्रः सचिवेशान्याः समस्तवन्द्यायाः ॥११९॥
कुर्मोऽधिहृदयमनिशं क्रोडास्यायाः शताङ्कमूर्धन्यम् ।
रुद्रदिशि रत्नधाम्नो रुचिरशलाका प्रपञ्चकञ्चुकितम् ॥१२०॥
परितो देवीधाम्नः प्रणीतवासा मनुस्वरूपिण्यः ।
कुर्वन्तु रश्मिमालाकृतयः कुशलानि देवता निखिलाः ॥१२१॥
प्राग्द्वारस्य भवानीधाम्नः पार्श्वद्वयारचितवासे ।
मातङ्गी किटिमुख्यौ मणिसदने मनसि भावयामि चिरम् ॥१२२॥
योजनयुगलाभोगा तत्कोशपरिणाहयैव भित्त्या च ।
चिन्तामणिगृह-भूमिर्जीयादाम्नायमयचतुर्द्वारा ॥१२३॥
द्वारे द्वारे धाम्नः पिण्डीभूता नवीनबिम्बाभाः ।
विदधतु विपुलां कीर्तिं दिव्या लौहित्यसिद्ध्यो देव्यः ॥१२४॥
मणिसदनस्यान्तरतो महनीये रत्नवेदिकामध्ये ।
बिन्दुमयचक्रमीडे पीठानामुपरि विरचितावासम्१२५॥
चक्राणां सकलानां प्रथममधः सीमफलकवास्तव्याः ।
अणिमादिसिद्धयो मामवन्तु देवी प्रभास्वरूपिण्यः ॥१२६॥
अणिमादिसिद्धिफलकस्योपरिहरिणाङ्कखण्डकृतचूडाः ।
भद्रं पक्ष्मलयन्तु ब्राह्मीप्रमुखाय मातरोऽस्माकम् ॥१२७॥
तस्योपरि मणिफलके तारुण्योत्तुङ्गपीनकुचभाराः ।
सङ्क्षोभिणीप्रधाना भ्रान्तिं विद्रावयन्तु दशमुद्राः ॥१२८॥
फलकत्रयस्वरूपे पृथुले त्रैलोक्यमोहने चक्रे ।
दीव्यन्तु प्रकटाख्यास्तासां कर्त्रीं च भगवती त्रिपुरा ॥१२९॥
तदुपरि विपुले धिष्ण्ये तरलदृशस्तरुणकोकनदभासः ।
कामाकर्षिण्याद्याः कलये देवीः कलाधरशिखण्डाः ॥१३०॥
सर्वाशापरिपूरकचक्रेऽस्मिन् गुप्तयोगिनी सेव्याः ।
त्रिपुरेशी मम दुरितं तुद्यात् कण्ठावलम्बिमणिहारा ॥१३१॥
तस्योपरि मणिपीठे ताम्राम्भोरुहदलप्रभाशोणाः ।
ध्यायाम्यनङ्गकुसुमाप्रमुखा देवीश्च विधृतकूर्पासाः ॥१३२॥
सङ्क्षोभकारकेऽस्मिंश्चक्रे श्रीत्रिपुरसुन्दरी साक्षात् ।
गोप्त्री गुप्तराख्याः गोपायतुमां कृपार्द्रया दृष्ट्या ॥१३३॥
संक्षोभिणीप्रधानाः शक्तीस्तस्योर्ध्ववलयकृतवासाः ।
आलोलनीलवेणीरन्तः कलयामि यौवनोन्मत्ताः ॥१३४॥
सौभाग्यदायकेऽस्मिंश्चक्रेशी त्रिपुरवासिनी जीयात् ।
शक्तीश्च सम्प्रदायाभिधाः समस्ताः प्रमोदयन्त्वनिशम् ॥१३५॥
मणिपीठोपरि तासां महति चतुर्हस्तविस्तृते वलये ।
सन्ततविरचितवासाः शक्तीः कलयामि सर्वसिद्धिमुखाः ॥१३६॥
सर्वार्थसाधकाख्ये चक्रेऽमुष्मिन् समस्तफलदात्री ।
त्रिपुरा श्रीर्मम कुशलं दिशतादुत्तीर्णयोगिनीसेव्या ॥१३७॥
तासां निलयस्योपरि धिष्ण्ये कौसुम्भकञ्चुकमनोज्ञाः ।
सर्वज्ञाद्या देव्यः सकलाः सम्पादयन्तु मम कीर्तिम् ॥१३८॥
चक्रे समस्तरक्षाकरनाम्न्यस्मिन्समस्तजनसेव्याम् ।
मनसि निगर्भासहितां मन्ये त्रिपुरमालिनी देवीम् ॥१३९॥
सर्वज्ञासदनस्योपरि चक्रे विपुले समाकलितगेहाः ।
वन्दे वशिनीमुख्याः शक्तीः सिन्दूररेणुशोणरुचः ॥१४०॥
श्रीसर्वरोगहारिणिचक्रेऽस्मिंत्रिपुरपूर्विकां सिद्धाम् ।
वन्दे रहस्यनाम्ना वेद्याभिः शक्तिभिः सदा सेव्याम् ॥१४१॥
वशिनीगृहोपरिष्टाद् विंशतिहस्तोन्नते महापीठे ।
शमयन्तु शत्रुबृन्दं शस्त्राण्यस्त्राणि चादिदम्पत्योः ॥१४२॥
शस्त्रसदनोपरिष्टा वलये वलवैरिरत्नसंघटिते ।
कामेश्वरीप्रधानाः कलये देवीः समस्तजनवन्द्याः ॥१४३॥
चक्रेऽत्र सर्वसिद्धिप्रदनामनि सर्वफलदात्री ।
त्रिपुराम्बावतु सततं परापररहस्ययोगिनीसेव्या ॥१४४॥
कामेश्वरीगृहोपरिवलये विविधमनुसंप्रदायज्ञाः ।
चत्वारो युगनाथा जयन्तु मित्रेशपूर्वका गुरवः ॥१४५॥
नाथभवनोपरिष्टान्नानारत्नचयमेदुरे पीठे ।
कामेश्याद्या नित्याःकलयन्तु मुदं तिथिस्वरूपिण्यः ॥१४६॥
नित्यासदनस्योपरि निर्मलमणिनिवहविरचिते धिष्ण्ये ।
कुशलं षडङ्गदेव्यः कलयन्त्वस्माकमुत्तरलनेत्राः ॥१४७॥
सदनस्योपरि तासां सर्वानन्दमयनामके बिन्दौ ।
पञ्चब्रह्माकारां मञ्चं प्रणमामि मणिगणाकीर्णम् ॥१४८॥
परितो मणिमञ्चस्य प्रलम्बमाना नियन्त्रिता पाशैः ।
मायामयी यवनिका मम दुरितं हरतु मेचकच्छाया ॥१४९॥
मञ्चस्योपरि लम्बन्मदनीपुन्नागमालिकाभरितम् ।
हरिगोपमयवितानं हरतादालस्यमनिशमस्माकम् ॥१५०॥
पर्यङ्कस्य भजामः पादान्बिम्बाम्बुदेन्दुहेमरुचः ।
अजहरिरुद्रेशमयाननलासुरमारुतेशकोणस्थान् ॥१५१॥
फलकं सदाशिवमयं प्रणौमि सिन्दूररेणुकिरणाभम् ।
आरभ्याङ्गेशीनां सदनात्कलितं च रत्नसोपानम् ॥१५२॥
पट्टोपधानगण्डकचतुष्टयस्फुरितपाटलास्तरणम् ।
पर्यङ्कोपरिघटितं पातु चिरं हंसतूलशयनं नः ॥१५३॥
तस्योपरि निवसन्तं तारुण्यश्रीनिषेवितं सततम् ।
आवृन्तपुल्लहल्लकमरीचिकापुञ्जमञ्जुलच्छायम् ॥१५४॥
सिन्दूरशोणवसनं शीतांशुस्तबकचुम्बितकिरीटम् ।
कुङ्कुमतिलकमनोहरकुटिलालिकहसितकुमुदबन्धुशिशुम् ॥१५५॥
पूर्णेन्दुबिम्बवदनं फुल्लसरोजातलोचनत्रितयम् ।
तरलापाङ्गतरङ्गितशफराङ्कनशास्त्रसंप्रदायार्थम् ॥१५६॥
मणिमयकुण्डलपुष्यन्मरीचिकल्लोलमांसलकपोलम् ।
विद्रुमसहोदराधरविसृमरस्मित-किशोरसंचारम् ॥१५७॥
आमोदिकुसुमशेखरमानीलभ्रूलतायुगमनोज्ञम् ।
वीटीसौरभंवीचीद्विगुणितवक्त्रारविन्दसौरभ्यम् ॥१५८॥
पाशाङ्कुशेक्षुचापप्रसवशरस्फुरितकोमलकराब्जम् ।
काश्मीरपङ्किलाङ्गं कामेशं मनसि कुर्महे सततम् ॥१५९॥
तस्याङ्कभुवि निषण्णां तरुणकदम्बप्रसूनकिरणाभाम् ।
शीतांशुखण्डचूडां सीमन्तन्यस्तसान्द्रसिन्दूराम् ॥१६०॥
कुङ्कुमललामभास्वन्निटिलां कुटिलतरचिल्लिकायुगलाम् ।
नालीकतुल्यनयनां नासाञ्चलनटितमौक्तिकाभरणाम् ॥१६१॥
अङ्कुरितमन्दहासमरुणाधरकान्तिविजितबिम्बाभाम् ।
कस्तूरीमकरीयुतकपोलसंक्रान्तकनकताटङ्काम् ॥१६२॥
कर्पूरसान्द्रवीटीकबलित वदनारविन्द कमनीयाम् ।
कम्बुसहोदरकण्ठप्रलम्बमानाच्छमौक्तिककलापाम् ॥१६३॥
कल्हारदामकोमलभुजयुगलस्फुरितरत्नकेयूराम् ।
करपद्ममूलविलसत्काञ्चनमयकटकवलयसंदोहाम् ॥१६४॥
पाणिचतुष्टय विलसत्पाशाङ्कुशपुण्ड्रचापपुष्पास्त्राम् ।
कूलंकषकुचशिखरां कुङ्कुमकर्दमितरत्नकूर्पासाम् ॥१६५॥
अणुदायादवलग्नामम्बुदशोभासनाभि-रोमलताम् ।
माणिक्यखचितकाञ्चीमरीचिकाक्रान्तमांसलनितम्बाम् ॥१६६॥
करभोरुकाण्डयुगलां जङ्घाजितकामजैत्रतूणीराम् ।
प्रपदपरिभूतकूर्मां पल्लवसच्छायपदयुगमनोज्ञाम् ॥१६७॥

उन्मस्तकानुकम्पामुत्तरलापाङ्गपोषितानङ्गाम् ॥१६८॥
आदिमरसावलम्बामनिदं प्रथमोक्तिवल्लरीकलिकाम् ।
आब्रह्मकीटजननीं अन्तः कलयामि सुन्दरीमनिशम् ॥१६९॥
कस्तु क्षितौ पटीयान्वस्तुस्तोतुं शिवाङ्कवास्तव्यम् ।
अस्तु चिरंतनसुकृतैः प्रस्तुतकाम्याय तन्मम पुरस्तात् ॥१७०॥
प्रभुसम्मितोक्तिगम्ये परमशिवोत्सङ्गतुङ्गपर्यङ्कम् ।
तेजः किंचन दिव्यं पुरतो मे भवतु पुण्ड्रकोदण्डम् ॥१७१॥
मधुरिमभरितशरासं मकरन्दस्पन्दिमार्गणोदारम् ।
कैरविणीविटचूडं कैवल्यायास्तु किंचन महो नः ॥१७२॥
अक्षुद्रमिक्षुचापं परोक्षमवलग्नसीम्नि त्र्यक्षम् ।
क्षपयतु मे क्षेमेतरमुक्षरथप्रेमपक्ष्मलं तेजः ॥१७३॥
भृङ्गरुचिसङ्गरकरापाङ्गं श्रृङ्गारतुङ्गमरुणाङ्गम् ।
मङ्गलमभङ्गुरं मे घटयतु गङ्गाधराङ्गसङ्गि महः ॥१७४॥
प्रपदजितकूर्ममूर्मिलकरुणं भर्मरुचिनिर्मथनदेहम् ।
श्रितवर्म मर्म शंभोः किंचन नर्म मम शर्मनिर्मातु ॥१७५॥
कालकुरलालिकालिमकन्दलविजितालिवि धृतमणिवालि ।
मिलतु हृदि पुलिनजलघनं बहुलित गलगरलकेलि किमपि महः ॥१७६॥
कुङ्कुमतिलकितफाला कुरुविन्दच्छायपाटलदुकूला ।
करुणापयोधिवेला काचन चित्ते चकास्तु मे लीला ॥१७७॥
पुष्पन्धयरुचिवेण्यः पुलिनाभोगत्रपाकरश्रेण्यः ।
जीयासुरिक्षुपाण्यः काश्चन कामारिकेलिसाक्षिण्यः ॥१७८॥
तपनीयांशुकभांसि द्राक्षामाधुर्यनास्तिकवचांसि ।
कतिचन शुचं महांसि क्षपयतु कपालितोषितमनांसि ॥१७९॥
असितकचमायताक्षं कुसुमशरं कुलमुद्वहकृपार्द्रम् ।
आदिमरसाधिदैवतमन्तः कलये हराङ्कवासि महः ॥१८०॥
कर्णोपान्ततरङ्गितकटाक्षनिस्पन्दि कण्ठदघ्नकृपाम् ।
कामेश्वराङ्कनिलयां कामपि विद्यां पुरातनीं कलये ॥१८१॥
अरविन्दकान्त्यरुंतुदविलोचनद्वन्द्वसुन्दरमुखेन्दुः ।
छन्दः कन्दलमन्दिरमन्तः पुरमैन्दुशेखरं वन्दे ॥१८२॥
बिम्बनिकुरुम्बडम्बरविडम्बकच्छायमम्बरवलग्नम् ।
कम्बुगलमम्बुदकुचं बिम्बोकं कमपि चुम्बतु मनो मे ॥१८३॥
कमपि कमनीयरूपं कलयाम्यन्तः कदम्बकुसुमाढ्यम् ।
चम्पकरुचिरसुवेषैः सम्पादितकान्त्यलंकृतदिगन्तम् ॥१८४॥
शम्पारुचिभरगर्हा संपादक क्रान्ति कवचित दिगन्तम् ।
सिद्धान्तं निगमानां शुद्धान्तं किमपि शूलिनः कलये ॥१८५॥
उद्यद्दिनकरशोणानुत्पलबन्धुस्तनंधयापीडान् ।
करकलितपुण्ड्रचापान् कलये कानपि कपर्दिनः प्राणान् ॥१८६॥
रशनालसज्जघनया रसनाजीवातु-चापभासुरया ।
घ्राणायुष्करशरया घ्रातं चित्तं कयापि वासनय ॥१८७॥
सरसिजसहयुध्वदृशा शम्पालतिकासनाभिविग्रहया ।
भासा कयापि चेतो नासामणि शोभिवदनया भरितम् ॥१८८॥
नवयावकाभसिचयान्वितया गजयानया दयापरया ।
धृतयामिनीशकलया धिया कयापि क्षतामया हि वयम् ॥१८९॥
अलमलमकुसुमबाणैः बिम्बशोणैः पुण्ड्रकोदण्डैः ।
अकुमुदबान्धवचूडैरन्यैरिह जगति दैवतं मन्यैः ॥१९०॥
कुवलयसदृक्षनयनैः कुलगिरिकूटस्थबन्धुकुचभारैः ।
करुणास्पन्दिकटाक्षैः कवचितचित्तोऽस्मि कतिपयैः कुतुकैः ॥१९१॥
नतजनसुलभाय नमो नालीकसनाभिलोचनाय नमः ।
नन्दित गिरिशाय नमो महसे नवनीपपाटलाय नमः ॥१९२॥
कादम्बकुसुमधाम्ने कायच्छायाकणायितार्यम्णे ।
सीम्ने चिरंतनगिरां भूम्ने कस्मैचिदादधे प्रणतिम् ॥१९३॥
कुटिलकबरीभरेभ्यः कुङ्कुमसब्रह्मचारिकिरणेभ्यः ।
कूलङ्कषस्तनेभ्यः कुर्मः प्रणतिं कुलाद्रिकुतुकेभ्यः ॥१९४॥
कोकणदशोण चरणात् कोमल कुरलालि विजितशैवालात् ।
उत्पलसुगन्धि नयनादुररीकुर्मो न देवतमान्याम् ॥१९५॥
आपाटलाधराणामानीलस्निग्धबर्बरकचानाम् ।
आम्नाय जीवनानामाकूतानां हरस्य दासोऽस्मि ॥१९६॥
पुङ्खितविलासहासस्फुरितासु पुराहिताङ्कनिलयासु ।
मग्नं मनोमदीयं कास्वपि कामारि जीवनाडीषु ॥१९७॥
ललिता पातु शिरो मे ललाटाम्बा च मधुमतीरूपा ।
भ्रूयुग्मं च भवानी पुष्पशरा पातु लोचनद्वन्द्वम् ॥१९८॥
पायान्नासां बाला सुभगा दन्तांश्च सुन्दरी जिह्वाम् ।
अधरोष्टमादिशक्तिश्चक्रेशी पातु मे चिरं चिबुकम् ॥१९९॥
कामेश्वरी च कर्णौ कामाक्षी पातु गण्डयोर्युगलम् ।
श्रृङ्गारनायिकाव्याद्वदनं सिंहासनेश्वरी च गलम् ॥२००॥
स्कन्दप्रसूश्च पातु स्कन्धौ बाहू च पाटलाङ्गी मे ।
पाणी च पद्मनिलया पायादनिशं नखावलीर्विजया ॥२०१॥
कोदण्डिनी च वक्षः कुक्षिं चाव्यात्कुलाचलतनूजा ।
कल्याणी च वलग्नं कटिं च पायात्कलाधरशिखण्डा ॥२०२॥
ऊरुद्वयं च पायादुमा मृडानी च जानुनी रक्षेत् ।
जङ्घे च षोडशी मे पायात्पादौ च पाशसृणि हस्ता ॥२०३॥
प्रातः पातु परा मां मध्याह्ने पातु मणिगृहाधीशा ।
शर्वाण्यवतु च सायं पायाद्रात्रौ च भैरवी साक्षात् ॥२०४॥
भार्या रक्षतु गौरी पायात्पुत्रांश्च बिन्दुगृहपीठा ।
श्रीविद्या च यशो मे शीलं चाव्याश्चिरं महाराज्ञी ॥२०५॥

रविमयि शशिमयि दिङ्मयि समयमयि प्राणमयि शिवे पाहि ॥२०६॥

वाग्देवि विन्ध्यवासिनि बाले भुवनेशि पालय चिरं माम् ॥२०७॥
अभिनवसिन्दूराभामम्ब त्वां चिन्तयन्ति ये हृदये ।
उपरि निपतन्ति तेषामुत्पलनयनाकटाक्षकल्लोलाः ॥२०८॥
वर्गाष्टकमिलिताभिर्वशिनीमुख्याभिरावृतां भवतीम् ।
चिन्तयतां सितवर्णां वाचो निर्यान्त्ययत्नतो वदनात् ॥२०९॥
कनकशलाकागौरीं कर्णव्यालोलकुण्डलद्वितयाम् ।
प्रहसितमुखीं च भवतीं ध्यायन्तो ये त एव भूधनदाः ॥२१०॥
शीर्षाम्भोरुहमध्ये शीतलपीयूषवर्षिणीं भवतीम् ।
अनुदिनमनुचिन्तयतामायुष्यं भवति पुष्कलमवन्याम् ॥२११॥
मधुरस्मितां मदारुणनयनां मातङ्गकुम्भवक्षोजाम् ।
चन्द्रवतंसिनीं त्वां सविधे पश्यन्ति सुकृतिनः केचित् ॥२१२॥
ललितायाः स्तवरत्नं ललितपदाभिः प्रणीतमार्याभिः ।
प्रतिदिनमवनौ पठतां फलानि वक्तुं प्रगल्भते सैव ॥२१३॥
सदसदनुग्रहनिग्रहगृहीतमुनिविग्रहो भगवान् ।
सर्वासामुपनिषदां दुर्वासा जयति देशिकः प्रथमः ॥२१४॥
॥इति महर्षिदुर्वासः प्रणीतं ललितास्तवरत्नं सम्पूर्णम् ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.