श्रीगणेशाय नम: ॥ श्रीसर्वप्रदाय नम: ॥ गृत्समद उवाच ॥
विघ्नेशवीर्याणि विचित्रकाणि बंदीजनैर्मागधकै: स्मृतानि । श्रुत्वा समुत्तिष्ठ गजानन त्वं ब्राह्मे जगन्मंगलकं कुरुष्व ॥ १ ॥
एवं मया प्रार्थितविघ्नराजश्चित्तेन चोत्थाय बहिर्गणेश: । तं निर्गतं वीक्ष्य नमंति देवा: शंभ्वादयो योगिमुखास्तथाऽहम् ॥ २ ॥
शौचादिकं ते परिकल्पयामि हेरंब वै दंतविशुद्धिमेवम् । वस्त्रेण संप्रोक्ष्य मुखारविंदं देवं सभायां विनिवेशयामि ॥ ३ ॥
द्विजादि सवैरभिवंदितं च शुकादिभिर्मोदसुमोदकाद्यै: । संभाष्यचालोक्य समुत्थितं तं सुमंडपं कल्प्य निवेशयामि ॥ ४ ॥
रत्नै: सुदीप्तै: प्रतिबिंबितं तं पश्यामि चित्तेन विनायकं च । तत्रासनं रत्नसुवर्ण्युक्तं संकल्प देवं विनिवशयामि ॥ ५ ॥
सिद्धया च बुद्धया च सह विघ्नराज पाद्यं कुरू प्रेमभरेण सर्वे: । सुवासितं नीरमथो गृहाण चित्तेन दत्तं च सुखोष्णभावम् ॥ ६ ॥
तत: सुवस्त्रेण गणेशमादौ संप्रोक्ष्य दूर्वादिभिरर्चयामि । चित्तेन भावप्रिय दीनबंधो मनो विलीनं कुरुते पदाब्जे ॥ ७ ॥
कर्पूरकैलादिसुवासितं तु सुकल्पितं तोयमथो गृहाण । आचम्य तेनैव गजानन त्वं कृपाकटाक्षेण विलोकयाशु ॥ ८ ॥
प्रवालमुक्ताफलहाटकाद्यै: सुसंस्कृतं ह्यंतरभावकेन । अनर्घ्यमर्घ्य सफलं कुरुष्व मया प्रदत्तं गणराज ढुंढे ॥ ९ ॥
सौगंध्ययुक्तं मधुपर्कमाद्यं संकल्पितं भावयुतं गृहाण । पुनस्तथाऽऽचम्य विनायक त्वं भक्तांश्च भक्तेश सुरक्षयाशु॥ १० ॥
सुवासितं चंपकजातिकाद्यैस्तैलं मया कल्पितमेव ढुंढे । गृहाण तेन प्रविमर्दयामि सर्वांगमेवं तव सेवनाय ॥ ११ ॥
तत: सुखोष्णेन जलेन चाहमनेकतीर्थाह्रतकेन ढुंढिम् । चित्तेन शुद्धेन च स्नापयामि स्नानं मया दत्तमथो गृहाण ॥ १२ ॥
तत: पय:स्नानमचिंत्यभाव गृहाण तोयस्य तथा गणेश । पुनर्दधि स्नानमनामय त्वं चित्तेन दत्तं च जलस्य देव ॥ १३ ॥
ततो घृतस्नानमपारवंद्यसुतीर्थजं विघ्नहर प्रसीद । गृहाण चित्तेन सुकल्पितं तु ततो मधुस्नानमथो जलस्य ॥ १४ ॥
सुशर्करायुक्तमथो गृहाण स्नानं मया कल्पितमेव ढुंढे । ततो जलस्नानमघापहंतृ विघ्नेश मायां हि निवारयाशु ॥ १५ ॥
सुयक्षपंकस्थमथो गृहाण स्नानं परेशाधिपते ततश्च । कौमण्डलीसंभवजं कुरुष्व विशुद्धमेवं परिकल्पतं तु ॥ १६ ॥
ततस्तु सूक्तैर्मनसा गणेशं संपूज्य दूर्वादिभिरल्पभावै: । अपारकैर्मडलभूतब्रह्मणस्पत्यादिकैस्तं ह्यभिषेचयामि ॥ १७ ॥
तत: सुवस्त्रेण तु प्रोक्षणं त्वं गृहाण चित्तेन मया सुकल्पितम् । ततो विशुद्धेन जलेन ढुंढे ह्याचांतमेवं कुरु विघ्नराज ॥ १८ ॥
अग्नौ विशुद्धे तु गृहाण वस्त्रे ह्यनर्घ्यमौल्ये मनसा मया ते । दत्ते परिच्छाद्य निजात्मदेहं ताभ्यां मयूरेश जनांश्च पालय ॥ १९ ॥
आचम्य विघ्नेश पुनस्तथैव चित्तेन दत्तं सुखमुत्तरीयम्। गृहाण भक्तप्रतिपालक त्वं नमो तथा तारकसंयुतं ॥ २० ॥
यज्ञोपवीतं त्रिगुणस्वरुपं सौवर्णमेवं ह्यहिनाथभूतम् । भावेन दत्तं गणनाथ तत्त्वं गृहाण भक्तोद्धृतिकारणाय ॥ २१ ॥
आचांतमेवं मनसा प्रदत्तं कुरुष्व शुद्धेन जलेन ढुंढे । पुनश्च कौमंडलकेन पाहि विश्वं प्रभो क्रीडनकं सदा ते ॥ २२ ॥
उद्यद्दिनेशाभमथो गृहाण सिंदूरकं ते मनसा प्रदत्तम् । सर्वागसंलेपनमादराद्वै कुरुष्व हेरंब च तेन पूर्णम ॥ २३ ॥
सहस्त्रशीर्ष मनसा मया त्वं दत्तं किरीटं तु सुवर्णजं वै । अनेकरत्नै: खचितं गृहाण ब्रह्मेश ते मस्तकशोभनाय ॥ २४ ॥
विचित्ररत्नै: कनकेन ढुंढे युतानि चित्तेन मया परेश । दत्तानि नानापदकुण्डलानि गृहाण शूर्पश्रुतिभूषणाय ॥ २५ ॥
शुण्डाविभूषार्थमनंतखेलिन् सुवर्णजं कंचुकमागृहाण । रत्नैश्च युक्तं मनसा मया यद्दत्तं प्रभो तत्सफलं कुरुष्व ॥ २६ ॥
सुवर्णरत्नैश्च युतानि ढुंढे सदैकदंताभरणानि कल्पये । गृहाण चूडाकृतये परेश दत्तानि दन्तस्य च शोभनार्थम् ॥ २७ ॥
रत्नै: सुवर्णेन कृतानि तानि गृहाण चत्वारि मया प्रकल्प्य । संभूषय त्वं कटकानि नाथ चतुर्भुजषु ह्यज विघ्नहारिन् ॥ २८ ॥
विचित्र रत्नै खचितं सुवर्ण संभूतकं गृह्य मया प्रदत्तम् । तथांगुलीष्वंगुलिकं गणेश चित्तेन संभोभय तत्परेश ॥ २९ ॥
विचित्ररत्नै: खचितानि ढुंढे केयूरकाणि ह्यथ कल्पितानि । सुवर्णजानि प्रमथाधिनाथ गृहाण दत्तानि तु बाहुषु त्वम् ॥ ३० ॥
प्रवालमुक्ताफलरत्नजास्त्वं सुवर्णसूत्रैश्च गृहाण कंठे । चितेन दत्ता विविधाश्च माला उरोदरे शोभय विघ्नराज ॥ ३१ ॥
चन्द्रं ललाटं गणनाथ पूर्ण वृद्धिक्षयाभ्यां तु विहीनमाद्यम् । संशोभय त्वं वरसंयुतं ते भक्तिप्रियत्वं प्रकटीकुरुष्व ॥ ३२ ॥
चिंतामाणिं चिंतितदं परश ह्रद्देशगं दीप्तिमयं कुरुष्व । मणिं सदानंदसुखप्रदं च विघ्नेश दीनार्थद पालयस्व ॥ ३३ ॥
नाभौ फणीशं च सहस्त्रशीर्ष संवेष्टनेनैव गणाधिनाथ । भक्तं सुभूषं कुरु भूषणेन वरप्रदानं सफलं परेश ॥ ३४ ॥
कटी तटे रत्नसुवर्णयुक्तां कांचीं सुचित्तेन च धारयामि । विघ्नेश ज्योतिर्गणदीपनी ते प्रसीद भक्तं कुरु मां दयाब्धे ॥ ३५ ॥
हेरंभ ते रत्नसुवर्णयुक्ते सुनूपुरे मंजिरके तथैव । सुकिंकिणीनादयुते सुबुद्धया सुपादयो: शोभय मे प्रदत्ते ॥ ३६ ॥
इत्यादिनानाविधिभूषणानि तवेच्छया मानसकल्पितानि । संभूषयाम्येव त्वदंगकेषु विचित्रधातुप्रभवाणि ढुंढे ॥ ३७ ॥
सुचंदनं रक्तममोघवीर्य सुघर्षितं ह्यष्टकगंधमुख्यै: । युक्तं मयाकल्पितमेकदंत गृहाण ते त्वंगविलेपनार्थम् ॥ ३८ ॥
लिप्तेषु वैचित्र्यमथाष्टगंधैरंगेषु तेऽहं प्रकरोमि चित्रम् । प्रसीद चित्तेन विनायक त्वं तत: सुरक्तं रविमेव भाले ॥ ३९ ॥
घृतेन वै कुंकुमकेन रक्तान् सुतंडुलांस्ते परिकल्पयामि । भाले गणाध्यक्ष गृहाण पाहि भक्तान्सुभक्तिप्रिय दीनबंधो ॥ ४० ॥
गृहाण भो चंपकमालतीनि पुष्पाणि यानि स्थलपंकजानि । चित्तेन दत्तानि च मल्लिकानि पुष्पाणि नानाविधवृक्षजानि ॥ ४१ ॥
पुष्पोपरि त्वं मनसा गृहाण हेरंब मंदारशमीदलानि । मया सुचित्तेन प्रकल्पितानि ह्यपारकाणि प्रणवाकृते तु ॥ ४२ ॥
दूर्वांकुरान्वै मनसा प्रदत्तांस्त्रिपंचपत्रैर्युतकांश्च स्निग्धान । गृहाण विघ्नेश्वर संख्यया त्वं हीनांश्च सर्वोपरि वक्रतुंड ॥ ४३ ॥
दशांगभूतं मनसा मया ते धूपं प्रदत्तं गणराज ढुंढे । गृहाण सौरभ्यकरं परेश सिद्धया च बुद्धया सह भक्तपाल ॥ ४४ ॥
दीपं सुवर्त्या युतमादरात्ते दत्तं मया मानसकं गणेश । गृहाण नानाविधगोधृतादितैलादिसंभूतममोघदृष्टे ॥ ४५ ॥
भोज्यं तु लेह्यं गणराज पेयं चोष्यं च नानाविधषड् रसाढ्यम् । गृहाण नैवेद्यमथो मया ते सुकल्पितं पुष्टिते महात्मन् ॥ ४६ ॥
सुवासितं भोजनमध्यभागे जलं मया दत्तमथो गृहाण । कमंडलुस्थं मनसा गणेश पिबस्व विश्वादिकतृप्तिकारिन् ॥ ४७ ॥
तत: करोद्वर्तनकं गृहाण सौगंध्ययुक्तं मुखमार्जनाय । सुवासितेनैव सुतीर्भजेन सुकल्पितं नाथ गृहाण ढुंढे ॥ ४८ ॥
पुनस्तथाचम्य सुवासितं च दत्तं मया तीर्थजलं पिबस्व । प्रकल्प्य विघ्नेश तत: परं ते संप्रोक्षणं हस्तमुखे करोमि ॥ ४९ ॥
द्राक्षादिरंभाफलचूतकानि खार्जरकार्कधुकदाडिमानि । सुस्वादयुक्तानि मया प्रकल्प गृहाण दत्तानि फलानि ढुंढे ॥ ५० ॥
पुनर्जलेनैव करादिकं ते संक्षालयेऽहं मनसा गणेश । सुवासितं तोयमथो पिबस्व मया प्रदत्तं मनसा परेश ॥ ५१ ॥
अष्टांगयुक्तं गणनाथ दत्तं तांबूलकं ते मनसा मया वै । गृहाण विघ्नेश्वर भावयुक्तं सदा सकृतुंडविशोधनार्थम् ॥ ५२ ॥
तत्तो मया कल्पितके गणेश महासने रत्नसुवर्णयुक्ते । मंदारकूर्पासकयुक्तवस्त्रैरनर्घ्यसंछादितके निषीद ॥ ५३ ॥
ततस्त्वदीयावरणं परेश संपूजयाम्यद्य ह्रदा यथावत् । नानोपचारै: परमप्रियैस्तु त्वत्प्रीतिकामार्थमनाथबंधो ॥ ५४ ॥
गृहाण लंबोदर दक्षिणां ते ह्यसंख्यभूतां मनसा प्रदत्ताम् । सौवर्णमुद्रादिकमुख्यभावां पाहि प्रभो विश्वमिदं गणेश ॥ ५५ ॥
राजोपचारान्विविधान् गृहाण हस्त्यश्वछत्रादिकमादराद्वै । चित्तेन दत्तान् गणनाथ ढुंढे ह्यपारसंख्यान् स्थिरजंगमांस्ते ॥ ५६ ॥
दानाय नानाविधरूपकांस्ते गृहाण दत्तान्मनसा मया वै । पदार्थभूतान् स्थिरजंगमांश्च हेरंब मां तारय मोहभावात् ॥ ५७ ॥
मंदारपुष्पाणि शमीदलानि दूर्वाकुरांस्ते मनसा ददामि । हेरंब लंबोदर दीनपाल गृहाण भक्तं कुरू मां पदे ते ॥ ५८ ॥
ततो हरिद्रामबिरं गुलालं सिंदूरकं ते परिकल्पयामि । सुवासितं वस्तुसुवासभूतैर्गृहाण ब्रह्मेश्वर शोभनार्थम् ॥ ५९ ॥
तत: शुकाद्या: शिवविष्णुमुख्या इन्द्रादय: शेषमुखास्तथान्ये । मुनींद्रका: सेवकभावयुक्ता: सभासनस्थं प्रणमंति ढुंढिम ॥ ६० ॥
वामांगके भक्तियुता गणेशं सिद्धिस्तु नानाविधसिद्धिभिस्तम् ॥ अत्यंतभावेन सुसेवते तु मायास्वरूपा परमार्थभूता ॥ ६१ ॥
गणेश्वरं दक्षिणभागसंस्था बुद्धि: कलाभिश्च सुबोधिकाभि: । विद्याभिरेवं भजते परेश मायासु सांख्यप्रदाचित्तरूपा ॥ ६२ ॥
प्रमोदमुख्या ननु पृष्ठभागे गणेश्वरं भावयुता भजंते । भक्तेश्वरा मुद्गलशंभुमुख्या: शुकादयस्तं स्म पुरो भजंते ॥ ६३ ॥
गंधर्वमुख्या मधुरं जगुश्च गणेशगीतं विविधस्वरूपम् । नृत्यं कलायुक्तपथो पुरस्ताच्चाक्रुस्तथा ह्यप्सरसो विचित्रम् ॥ ६४ ॥
इत्यादि नानाविधभावयुक्तै: संसेवितं विघ्नपतिं भजामि । चित्तेन ध्यात्वा तु निरंजनं वै करोमि नानाविधदीपयुक्तम् ॥ ६५ ॥
चतुर्भुजं पाशधरं गणेशं सहाङ्कुशं दंतयुतं तमेवम् । त्रिनेत्रयुक्तं त्वभयंकरं तं महोदरं चैकरदं गजास्यम् ॥ ६६ ॥
सर्वोपवीतं गजकर्णधारं विभूतिभि: सेवितापादपद्यम् । ध्याये गणेशं विविधप्रकारै: सुपूजितं शक्तियुतं परेशम् ॥ ६७ ॥
ततो जपं वै मनसा करोमि स्वमूलमंत्रस्य विधानयुक्तम् । असंख्यभूतं गणराज हस्ते समर्पयाम्येव गृहाण ढुंढे ॥ ६८ ॥
आरार्तिकां कर्पूरकादिभूतामपारदीपां प्रकरोमि पूर्णाम् । चित्तेन लंबोदर तां गृहाण ह्यज्ञानध्वांताघहरां निजानाम् ॥ ६९ ॥
वदेषु वैघ्नेश्वरकै: सुमंत्रे: सुमंत्रितं पुष्पदलं प्रभूतम् । गृहाण चित्तेन मया प्रदत्तमपारवृत्त्या त्वथ मंत्रपुष्पम् ॥ ७० ॥
अपारवृत्या स्तुतिमेकदंत गृहाण चित्तेन कृतां गणेश । युक्तां श्रुतिस्मार्तभवै: पुराणै: सर्वै परेशाधिपते मया ते ॥ ७१ ॥
प्रदक्षिणा मानसकल्पितास्ता गृहाण लंबोदर भावयुक्ता: । संख्याविहीना विविधस्वरूपा भक्तान्सदा रक्ष भवार्णवाद्वै ॥ ७२ ॥
नतिं ततो विघ्नपते गृहाण साष्टांगकाद्यां विविधस्वरूपाम् । संख्याविहीनां मनसा कृतां ते सिद्धया च बुद्धया परिपालयाशु ॥ ७३ ॥
न्यूनातिरिक्तं तु मया कृतं चेत्तदर्थमंते मनसा गृहाण । दुर्वाकुरान् विघ्नपते प्रदत्तान संपूर्णमेवं कुरू पूजनं मे ॥ ७४ ॥
क्षमस्व विघ्नाधिपते मदीयान् सदाऽपराधान् विविधस्वरूपान् । भक्ति मदीयां सफलां कुरुष्व संप्रार्थये त्वां मनसा गणेश ॥ ७५॥
तत: प्रसन्नेन गजाननेन दत्तं प्रसादं शिरसाऽभिवंद्य । स्वमस्तके तं परिधारयामि चित्तेन विघ्नेश्वरमानतोऽस्मि ॥७६ ॥
उत्थाय विघ्नेश्वर एव तस्माद् गतस्ततस्त्वन्तरधानशक्त्या । शिवादयस्तं प्रणिपत्य सर्वे गता: सुचित्तेन च चिंतयामि ॥ ७७ ॥
सर्वान्नमस्कृत्य ततोऽहमेवं भजामि चित्तेन गणाधिपं तम् । स्वस्थानमागत्य महानुभावैर्भक्तैर्गणेशस्य च खेलयामि ॥ ७८ ॥
एवं त्रिकालेषु गणाधिपं तं चित्तेन नित्यं परिपूजयामि । तेनैव तुष्ट: प्रददातु भावं विश्वेश्वरो भक्तिमयं तु मह्यम् ॥ ७९ ॥
गणेशपादोदकपानकं च ह्युच्छिष्टगंधस्य सुलेपनं तु । निर्माल्यसंधारणकं सुभोज्यं लंबोदरस्यास्तु हि भुक्तशेषम् ॥ ८० ॥
यं यं करोम्येव तदेव दीक्षागणेश्वरस्यास्तुसदा गणेश । प्रसीद नित्यं तव पादभक्तं कुरुश्व मां ब्रह्मपते दयालो ॥ ८१ ॥
ततस्तु शय्यां परिकल्पयामि मंदारकूर्पासकवस्त्रयुक्ताम् । सुवासपुष्पादिभिरचितां ते गृहाण निद्रां कुरू विघ्नराज ॥ ८२ ॥
सिद्धया च बुद्धया सहितं गणेशं सुनिद्रितं वीक्ष्य तथाहमेव । गत्वा स्ववासं च करोमि निद्रां यात्वा ह्रदि ब्रह्मपतिं तदीय: ॥ ८३ ॥
एतादृशं सौख्यममोघशक्ते देहि प्रभो मानसजं गणेश । मह्यं च तेनैव कृतार्थरूपो भवामि भक्तेरसलालसोहऽम् ॥ ८४ ॥
गार्ग्य उवाच ॥ एव नित्यं महाराज गृत्समदो महायशा:। चकार मानसीं पूजां योगींद्राणां गुरु: स्वयम् ॥ ८५ ॥
य एतां मानसीं पुजां करिष्यति नरोत्तम: । पठिष्यति सदा सोऽपि गाणपत्यो भविष्यति ॥ ८६ ॥
श्रावयिष्यति यो मर्त्य: श्रोष्यति प्रेमसंयुत: । स: क्रमेण महीपाल ब्रह्मभूतो भविष्यति ॥ ८७ ॥
यं यमिच्छति तं तं वै सफलं तस्य जायते । अंते स्वानंदग: सोऽपि योगवंद्यो भविष्यति ॥ ८८ ॥
इति मानस पूजा समाप्ता ॥

आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.