श्रीगणेशाय नमः ॥
ॐ अस्य श्रीसंकष्टहरणस्तोत्रमन्त्रस्य श्रीमहागणपतिर्देवता संकष्टहरणार्थे जपे विनियोगः ।
ॐॐॐकाररूपं त्र्यहमिति च परं यत्स्वरूपं तुरीयं त्रैगुण्यातीतलीलं कलयति मनसस्तेजसिन्दूरमूर्तिम् ।
योगीन्द्रैर्ब्रह्मरन्ध्रैः सकलगुणमयं श्रीहरेन्द्रेण सङ्गं गंगंगंगं गणेशं गजमुखमभितो व्यापकं चिन्तयामि ॥१॥
वं वं वं विघ्नराजं भजति निजभुजे दक्षिणे व्यस्ततुण्डं क्रं क्रं क्रं क्रोधमुद्रादलितरिपुबलं कल्पवृक्षस्य मूले ।
दं दं दं दन्तमेकं दधति मुनिमुखं कामधेन्वा निषेव्यं धं धं धं-धारयन्तं धनदमतिधियं सिद्धिबुद्धिद्वितीयम् ॥२॥
तुं तुं तुं तुङ्गरूपं गगनपथि गतं व्याप्नुवन्तं दिगन्तान् क्ली क्लीं क्लींकारनाथं गलितमदमिलल्लोलमत्तालिमालम् ।
ह्रीं ह्रीं ह्रींकारपिङ्गं सकलमुनिवरध्येयमुण्डं च शुण्डं श्री श्री श्री श्री श्रयन्तं निखिलनिधिकुलं नौमि हेरम्बबिम्बम् ॥३॥
लौं लौं लौंकारमाद्यं प्रणवमिव पदं मन्त्रमुक्तावलीनां शुद्धं विघ्नेशबीजं शशिकरसदृशं योगिना ध्यानगम्यम् ।
डं डं डं डामरूपं दलितभवभयं सूर्यकोटिप्रकाशं यं यं यं यज्ञनाथं जपति मुनिवरो बाह्यमभ्यन्तरं च ॥४॥
हुं हुं हुं हेमवर्णं श्रुतिगणितगुणं शूर्पकर्णं कृपालुं ध्येयं सूर्यस्य बिम्बं ह्युरसि च विलसत्सर्पयज्ञोपवीतम् ।
स्वाहाहुंफट्नमोन्तैष्ठठठसहितैः पल्लवैः सेव्यमानं मन्त्राणां सप्तकोटिप्रगुणितमहिमाधमीशं प्रपद्ये ॥५॥
पूर्वं पीठं त्रिकोणं तदुपरि रुचिरं षट्कपत्रं पवित्रं यस्योर्ध्वं शुद्धरेखा वसुदलकमलं वा स्वतेजश्चतुस्रम् ।
मध्ये हुंकारबीजं तदनु भगवतः स्वाङ्गषट्कं षडस्त्रे अष्टौ शक्तीश्च सिद्धिर्बहूलगणपतिर्विष्टरश्चाष्टकं च ॥६॥
धर्माद्यष्टौ प्रसिद्धा दशदिशि विदिता वा ध्वजाल्यः कपालं तस्य क्षेत्रादिनाथं मुनिकुलमखिलं मन्त्रमुद्रामहेशम् ।
एवं यो भक्तुयुक्तो जपति गणपतिं पुष्पधूपाक्षताद्यैर्नैवेदैर्मोदकानां स्तुतियुतविलसद्गीतवादित्रनादैः ॥७॥
राजानस्तस्य भृत्या इव युवतिकुलं दासवत्सर्वदाऽस्ते लक्ष्मीः सर्वाङ्गयुक्ता श्रयति च सदनं किंकराः सर्वलोकाः ।
पुत्राः पुत्र्यः पवित्रा रणभुवि विजयी द्यूतवादेऽपि वीरो यस्येशो विघ्नराजो निवसति ह्रदये भक्तिभाग्यस्य रुद्रः ॥८॥
इति संकष्टहरणं गणेशाष्टकस्तोत्रम् ॥