समुन्मीलन्नीलांबुजनिकरनीराजितरुचा मपांगानां भङ्गैरमृतलहरीश्रेणिमसृणै: ।
ह्रिया हीनं दीनं भृशुमुदरलीनं करुणया हरिश्यामा सा मामवतु जडसामाजिकमपि ॥ १ ॥
समुन्मीलत्वंत:करणकरुणोद्गारचतुर: करिप्राणत्राणप्रणयिनि दृगन्तस्तवमयि । यमासाद्योन्माद्यद्द्विपनियुतगंडस्थलगलन्मदक्लिन्नद्वारो भवति सुखसारो नरपति: ॥ २ ॥
उरस्यस्य भ्रश्यत्कबरभरनिर्यत्सुमनस: पतंति स्वर्बाला: स्मरशरपराधीनमनस: ।
सुरास्तं गायंति स्फुरिततनुगंगाधरमुखास्तवायं दृक्पातो यदुपरि कृपातो विलसति ॥ ३ ॥
समीपे संगीतस्वरमधुरभंगी मृगदृशां विदूरे दानांधद्विरदकलभोद्दामनिनद: ।
बहिर्द्वारे तेषां भवति हयहेषाकलकलो दृगेषा ते येषामुपरि कमले देवि सदया ॥ ४ ॥
अगण्यैरिन्द्राद्यैरपि परमपुण्यै: परिचितो जगज्जन्मस्थानप्रलयरचनाशिल्पनिपुण: । उदंचत्पीयूषांबुधिलहरिलीलामनुहरन्नपांगस्तेऽमन्दं मम कलुषवृन्दं दलयतु ॥ ५ ॥
नमन्मौलिश्रेणित्रिपुरपरिपंथिप्रतिलसत्कपर्दव्यावृत्तिस्फुरितफणिफूत्कारचकित: ।
लसत्फुल्लांभोजम्रदिमहरण: कोऽपि चरणश्चिरं चेतश्चारी मम भवतु वारीशदुहितु: ॥ ६ ॥
प्रवालानां दीक्षागुरुरपि च लाक्षारुणरुचां नियंत्री बन्धुकद्युतिनिकरबंधुकृतिपटु: ।
नृणामंतर्ध्वांतं निविडमपहर्तं तव किल प्रभातश्रीरेषा चरणरुचिवेषा विजयते ॥ ७ ॥
प्रभातप्रोन्मीलत्कमलवनसंचारसमये शिखा: किंजल्कानां विदधति रुजं यत्र मृदुल: ।
तदेतन्मातस्ते चरणमरुणश्लाघ्यकरुण कठोरा मद्वाणी कथमियमिदानीं प्रविशतु ॥ ८ ॥
स्मितज्योत्स्नामज्जद्द्विजमणिमयूखामृतझरैर्निषिञ्चन्तीं विश्वं तव विमलमूर्तिं स्मरति य: ।
अमंदं स्यंदन्ते वदनकमलादस्य कृतिनो विविक्तौ वैकल्पा: सततमधिकल्पा नवगिर: ॥ ९ ॥
शरौ मायाबीजौ हिमकरकलाक्रांतशिरसौ विधायोर्ध्वं बिंदूं स्फुरितमिति बीजं जलधिजे ।
जपेद्य: स्वच्छन्दं स हि पुनरमंदं गजघटामदभ्राम्यद्भृंगैर्मुखरयति वेश्मानि विदुषाम् ॥ १० ॥
स्मरो नामं नामं त्रिजगदभिरामं तव पदं प्रपेदे सिद्धिं यां कथमिव नरस्तां कथयतु ।
यया पातं पातं पदकमलयो: पर्वतचरो हरो हा रोषार्द्रामनुनयति शैलेंद्रतनयाम् ॥ ११ ॥
हरंतो नि:शंकं हिमकरकलानां रुचिरतां किरंत: स्वच्छंदं किरणमयपीयूषनिकरम् ।
विलुंपंतु प्रौढा हरिह्रदयहारा: प्रियतमा ममांतस्संतापं तव चरणशोणांबुजनखा ॥ १२ ॥
मिषान्माणिक्यानां विगलितनिमेषं निमिषताममन्दं सौंदर्य तव चरणयोरंबुधिसुते ।
पदालंकाराणां जयति कलनिक्काणनपटुरुदंचन्नुद्दाम: स्तुतिवचनलीलाकलकल: ॥ १३ ॥
मणिज्योत्स्नाजालैर्निजतनुरुच: मांसलतया जटालं ते जंघायुगलमघभङ्गाय भवतु ।
भ्रमन्ती यन्मध्ये दरदलितशोणांबंजरुचां दृशां माला नीराजनमिव विधत्ते मुररिपो: ॥ १४ ॥
हरद् गर्वं सर्वं करिपतिकराणां मृदुतया भृशं भाभिर्दंभं कनकमयरंभावनिरुहाम् ।
लसज्जानुज्योत्स्नातरणिपरिणद्धं जलनिधे तवोरुद्वंद्वं न: श्लथयतुभयोरुज्वरभयम् ॥ १५ ॥
कलववाणां कांचीं मणिगणजटालामधिवहन्वसान: कौसुंभं वसनमसनं कौस्तुभरुचाम् ।
मुनिव्रातै: प्रात: शुचिवचनजतैरतिनुतं नितंबस्ते बिंबं हसति नवमंबांबरमणे: ॥ १६ ॥
जगन्मिथ्याभूतं मम निगदतां वेदवचसामभिप्रायो नाद्यावधि ह्रदयमध्याविशदयम् ।
तदानीं विश्वेषां जनकमुदरं ते विमृशतो विसन्देहं चेतोऽजनि गरुडकेतो: प्रियतमे ॥ १७ ॥
अनल्पैर्वादीन्द्रैरगणितमहायुक्तिनिवहैर्निरस्ता विस्तारं क्वचिदकलयंती तनुमपि ।
असत्ख्यातिव्याख्यादिकचतुरिमाख्यातमहिमावलग्ने लग्नेयं सुगतमतसिद्धान्तसरणि: ॥ १८ ॥
निदानं श्रृङ्गारप्रकरमकरंदस्य कमले महानेवालंबो हरि नयनरोलंबवरयो: ।
निधानं शोभानां निधनमनुतापस्य जगतो जवेनाभीतिं मे दिशतु तव नाभीसरसिजम् ॥ १९ ॥
गभीरामुद्वेलां प्रथमरसकल्लोलमिलितां विगाढुं ते नाभीविमलसरसीं गौर्मम मनाक् ।
पदं धावन्न्यस्यत्यहह विनिमग्नैव सहसा न हि क्षेम सुते गुरुमहिमसूतेष्वविनय: ॥ २० ॥
कुचौ ते दुग्धाभोनिधिकुलशिखामंडनमणेर्हरेते सौभाग्यं यदि पुरगिरेश्चित्रमिह किम् ।
त्रिलोकीलावण्याहरननवलीलानिपुणयोर्ययोर्दत्ते भूय: करमखिलनाथो मधुरिपु: ॥ २१ ॥
हरक्रोधत्रस्यन्मदननवदुर्गद्वयतुलां दधत्कोकद्वंद्वद्युतिदमनदीक्षाधिगुरुताम् ।
तवैतद्वक्षोजद्वितयमरविंदाक्षमहिले मम स्वांतध्वांतं किमपि च नितांतं गमयतु ॥ २२ ॥
अनेकब्रह्मांडस्थितिनियमलीलाविलसिते दयापीयूषांभोनिधिसहजसंवासभवने ।
विधोश्चित्तायामे ह्रदयकमले ते तु कमले मनाङ मन्निस्तारस्मृतिरपि च कोणे निवसतु ॥ २३ ॥
मृणालीनां लीला: सहजलवणिम्नां लघयतां चतुर्णां सौभाग्यं तव जननि दोष्णां वदतु क: ।
लुठंति स्वच्छंदं मरकतशिलामांसलरुच: श्रुतीनां स्पर्धां ये दधत इव कंठे मधुरिपो: ॥ २४ ॥
अलभ्यं सौरभ्यं कविकुलनमस्या रुचिरता तथापि त्वद्धस्ते निवसदरविंदं विकसितम् ।
कलापे काव्यानां प्रकृतिकमनीयस्तुतिविधौ गुणोत्कर्षाधानं प्रथितमुपमानं समजनि ॥ २५ ॥
अनल्पं जल्पंतु प्रतिहतधिय: पल्लवतुलां रसज्ञामज्ञानां क इव कमले मंथरयतु ।
तपन्तु श्रीभिक्षावितरणवशीभूतजगतां कराणां सौभाग्यं तव तुलयितुं तुंगरसना ॥ २६ ॥
समाहार:श्रीणां विरचितविहारो हरिदृशां परीहारो भक्तप्रभवभवसंतापसरणे: ।
प्रहार: सर्वासामपि च विपदां विष्णुदयिते ममोद्धारोपायं तव सपदि हारो विमृशतु ॥ २७ ॥
अलंकुर्वाणानां मणिगणघृणीनां लवणिमा यदीयाभिर्भाभिर्भजति महिमानं लघुरपि ।
सुपर्वश्रेणीनां जनितपरसौभाग्यविभवास्तवांगुल्यस्ता मे ददतु हरिवामेऽभिलषितम् ॥ २८ ॥
तपस्तेपे तीव्रं किमपि परितप्य प्रतिदिनं तव ग्रीवालक्ष्मीलवपरिचयादाप्तविभवम् । ह
रि: कंबुं चुंबत्यथ वहति पाणौ किमधिकं वदामस्तत्रायं प्रणयवशतोऽस्यै स्पृहयति ॥ २९ ॥
अभेदप्रत्यूह: सकलहरिदुल्लासनविधिर्विलोनी लोकानां स हि नयनतापोऽपि कमले ।
तवास्मिन्पीयूषं किरति वदने रम्यवदने कुतो हेतोश्चेतो विधुरयमुदेति स्म जलधे: ॥ ३० ॥
मुखांभोजे मंदस्मितमधुरकांत्या विकसतां द्विजानां ते हीरावलिविहितनीराजनरुचाम् ।
इयं ज्योत्स्ना काऽपि स्रवदमृतसंदोहसरसा ममोद्यद्दारिद्र्यज्वरतरुणतापं तिरयतु ॥ ३१ ॥
कुलै: कस्तूरीणां भृशमनिशमालास्यमपि च प्रभातप्रोन्मीलन्नलिननिवहैरश्रुतचरम् ।
वहन्त: सौरभ्यं मृदुगतिविलासा मम शिवं तव श्वासा नासापुटविहितवासा विदधताम् ॥ ३२ ॥
कपोले ते दोलायितललितलोलालकवृते विमुक्ताद्धम्मिल्लाल्लसति नवमुक्तावलिरियम् ।
स्वकीयानां बंदीकृतमसहमानैरिव बलान्निबध्योर्ध्वं कृष्टातिमिरनिकुरंबैर्विधुकसा ॥ ३३ ॥
प्रसादो यस्यायं नमदमितगीर्वाणमुकुटप्रसर्पज्ज्योत्स्नाभिश्चरणतलपीठार्चितविधि: ।
दृगंभोजं तत्ते गतिहसितमत्तेभगमने वने लीनैर्दीनै: कथय कथमीयादिह तुलाम् ॥ ३४ ॥
दुरापा दुर्वृत्तैर्दुरितदमने दारणभरा दयार्द्रा दीनानामुपरि दलदिन्दीवरनिभा ।
दहती दारिद्र्यद्रुमकुलमुदारद्रविणदा त्वदीया दृष्टिमे जननि दुरदृष्टं दलयतु ॥ ३५ ॥
तव श्रोत्रे फुल्लोत्पलसकलसौभाग्यजयिनी सदैव श्रीनारायणगुणगणौघप्रणयिनी ।
रवैर्दीनां लीनामनिशमवधानातिशयिनीं ममाप्येतां वाचं जलधितनये गोचरयताम् ॥ ३६ ॥
प्रभाजालै: प्राभातिकदिनकराभापनयनं तवेदं खेदं मे विघटयतु ताटंकयुगलम् ।
महिम्ना यस्यायं प्रलयसमयेऽपि क्रतुभुजां जगत्पायं पायं स्वपिति निरपायं तव पति: ॥ ३७ ॥
निवासो मुक्तानां निबिडतरनीलांबुदनिभस्तवायं धम्मिल्लो विमलयतु मल्लोचनयुगम् ।
भृशं यस्मिन्कालागरुबहुलसौरम्यनिवहै: पतंति श्रीभिक्षार्थि न इव मदांधामधुलिह: ॥ ३८ ॥
विलग्नौ ते पार्श्वद्वयपरिसरे मत्तकरिणौ करोन्नीतैरंचन्मणिकलशमुग्धास्यगलितै: ।
निषिंचंतौ मुक्तामणिगणचयैस्त्वां जनगणैर्नमस्यामो दामोदरगहिणि दारिद्र्यदलिता: ॥ ३९ ॥
अये मातर्लक्ष्मि त्वदरुणपदांभोजनिकटे लुठंतं बालं मामविरलगलद्वाष्पजटिलम् ।
सुधासेकस्निग्धैरतिमसृणमुग्धै: करतलै: स्पृशंती मारोदीरिति वद समाश्वास्यसि कदा ॥ ४० ॥
रमे पद्मे लक्ष्मि प्रणतजन कल्पद्रुमलते सुधांभोधे: पुत्रि त्रिदशनिकरोपास्तचरणे ।
परे नित्यं मातर्गुणमयि परब्रह्ममहिले जगन्नाथस्याकर्णय मृदुलवर्णावलिमिमाम् ॥ ४१ ॥
इति पंडितश्रीजगन्नाथविरचिता लक्ष्मीलहरि: समाप्ता ।
आपण साहित्यिक आहात ? कृपया आपले साहित्य authors@bookstruckapp ह्या पत्त्यावर पाठवा किंवा इथे signup करून स्वतः प्रकाशित करा. अतिशय सोपे आहे.