सुवर्णपद्मिनीतटान्तदिव्यहर्म्यवासिने सुपर्णवाहनप्रियाय सूर्यकोटितेजसे ।
अपर्णया विहारिणे फणाधरेन्द्रधारिणे सदा नमश्शिवाय ते सदाशिवाय शंभवे ॥१ ॥
सुतुङ्गभङ्गजान्हुजासुधांशुखण्डमौलये पतङ्गपङ्कजासुहृत्कृपीटयोनिचक्षुषे ।
भुजङ्गराजकुण्डलाय पुण्यशालिबन्धवे सदा नमश्शिवाय ते सदाशिवाय शंभवे ॥२ ॥
चतुर्मुखाननारविन्दवेदगीतमूर्तये चतुर्भुजानुजाशरीरशोभमानमूर्तये ।
चतुर्विधार्थदानशौण्डताण्डवस्वरूपिने सदा नमश्शिवाय ते सदाशिवाय शंभवे ॥३ ॥
शरन्निशाकरप्रकाशमन्दहासमञ्जुला धरप्रवालभासमानवक्त्रमण्डलश्रिये ।
करस्फुरत्कपालमुक्तविष्णुरक्तपायिने सदा नमश्शिवाय ते सदाशिवाय शंभवे ॥४ ॥
सहस्रपुण्डरीकपूजनैकशून्यदर्शना सहस्वनेत्रकल्पितार्चनाच्युताय भक्तितः ।
सहस्रभानुमण्डलप्रकाशचक्रदायिने सदा नमश्शिवाय ते सदाशिवाय शंभवे ॥५ ॥
रसारथाय रम्यपत्रभृद्रथाङ्गपाणये रसाधरेन्द्रचापशिञ्जिनीकृतानिलाशिने ।
स्वसारथीकृताजनुन्नवेदरूपवाजिने सदा नमश्शिवाय ते सदाशिवाय शंभवे ॥६ ॥
अतिप्रगल्भवीरभद्रसिंहनादगर्जित श्रुतिप्रभीतदक्षयागभोगिनाकसद्मनाम् ।
गतिप्रदाय गर्जिताखिलप्रपञ्चसाक्षिणे सदा नमश्शिवाय ते सदा शिवाय शंभवे ॥७ ॥
मृकण्डुसूनुरक्षणावधूतदण्डपाणये सुगण्डमण्डलस्फुरत्प्रभाजितामृतांशवे ।
अखण्डभोगसम्पदर्थिलोकभावितात्मने सदा नमश्शिवाय ते सदा शिवाय शंभवे ॥८ ॥
मधुरिपुविधिशक्रमुख्यदेवैरपि नियमार्चितपादपङ्कजाय ।
कनकगिरिशरासनाय तुभ्यं रजतसभापतये नमः शिवाय ॥९ ॥
हालास्यनाथाय महेश्वराय हालाहलालङ्कृतकन्धराय ।
मीनेक्षनायाः पतये शिवाय नमो नमः सुन्दरताण्डवाय ॥१० ॥
त्वया कृतमिदं स्तोत्रं यः पठेद्भक्तिसंयुतः ।
तस्याऽऽयुर्दीर्घमारोग्यं सम्पदश्च ददाम्यहम् ॥११ ॥