ॐ अथ श्री देवीचतुःषष्ट्युपचारपूजास्तोत्रम् उषसि मागधमङ्गलगायनैः झटिति जागृहि जागृहि जागृहि ।
अतिकृपार्द्रकटाक्षनिऱीक्षणैः जगदिदं जगदम्ब सुखीकुरु ॥१ ॥
कनकमयवितर्दिशोभमानं दिशि दिशि पूर्णसुवर्णकुम्भयुक्तम् ।
मणिमयमण्टपमध्यमेहि मातः मयि कृपयाशु समर्चनं ग्रहीतुम् ॥२ ॥
कनककलशशोभमानशीर्षं जलधरलम्बि समुल्लसत्पताकम् ।
भगवति तव संनिवासहेतोः मणिमयमन्दिरमेतदर्पयामि ॥३ ॥
तपनीयमयी सुतूलिका कमनीया मृदुलोत्तरच्छदा ।
नवरत्नविभूषिता मया शिबिकेयं जगदम्ब तेऽर्पिता ॥४ ॥
कनकमयवितर्दिस्थापिते तूलिकाढये विविधकुसुमकीर्णे कोटिबालार्कवर्णे ।
भगवति रमणीये रत्नसिंहासनेऽस्मिन् उपविश पदयुग्मं हेमपीठे निधाय ॥५ ॥
मणिमौक्तिकनिर्मितं महान्तं कनकस्तम्भचतुष्टयेन युक्तम् ।
कमनीयतमं भवानि तुभ्यं नवमुल्लोचमहं समर्पयामि ॥६ ॥
दूर्वया सरसिजान्वितविष्णु- कान्तया च सहितं कुसुमाढ्यम् ।
पद्मयुग्मसदृशे पदयुग्मे पाद्यमेतदुररीकुरु मातः ॥७॥
गन्धपुष्पयवसर्षपदूर्वा- संयुतं तिलकुशाक्षतमिश्रम् ।
हेमपात्रनिहितं सह रत्नैः अध्यर्मेतदुररीकुरु मातः ॥८ ॥
जलजद्युतिना करेण जाती- फलतक्कोललवङ्गगन्धयुक्तैः ।
अमृतैरमृतौरिवातिशीतैः भगवत्याचमनं विधीयताम् ॥९ ॥
निहितं कनकस्य संपुटे पिहितं रत्नपिधानकेन यत् ।
तदिदं जगदम्ब तेऽर्पितं मधुपर्कं जननि प्रगृह्यताम् ॥१० ॥
एतच्चम्पकतैलमम्ब विविधैः पुष्पैः मुहुर्वासितं न्यस्तं रत्नमये सुवर्णचषके भृङ्गैः भ्रमद्भिः वृतम् ।
सानन्दं सुरसुन्दरीभिरभितो हस्तैः धृतं ते मया केशेषु भ्रमरभ्रमेषु सकलेष्वङ्गेषु चालिप्यते ॥११ ॥
मातः कुङ्कुमपङ्कनिर्मितमिदं देहे तवोद्वर्तनं भक्त्याहं कलयामि हेमरजसा संमिश्रितं केसरैः ।
केशानामलकैः विशोध्य विशदान्कस्तूरिकोदञ्चितैः स्नानं ते नवरत्नकुम्भसहितैः संवासितोष्णोदकैः ॥१२ ॥
दुधिदुग्धघृतैः समाक्षिकैः सितया शर्करया समन्वितैः । स्नपयामि तवाहमादरात् जननि त्वां पुनरुष्णवारिभिः ॥१३ ॥
एलोशीरसुवासितैः सकुसुमैर्गङ्गादि तीर्थोदकैः माणिक्यामलमौक्तिकामृतरसैः स्वच्छैः सुवर्णोदकैः ।
मन्त्रान्वैदिकतान्त्रिकान्परिपठन्सानन्दमत्यादरात् स्नानं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥१४ ॥
बालार्कद्युति दाडिमीयकुसुमप्रस्पर्धि सर्वोत्तमं मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम् ।
मुक्ताभिः ग्रथितं सुकञ्चुकमिदं स्वीकृत्य पीतप्रभं तप्तस्वर्णसमानवर्णमतुलं प्रावर्णमङ्गीकुरु ॥१५ ॥
नवरत्नमये मयार्पिते कमनीये तपनीयपादुके । सविलासमिदं पदद्वयं कृपया देवि तयोर्निधीयताम् ॥१६ ॥
बहुभिरगरुधूपैः सादरं धूपयित्वा भगवति तव केशान्कङ्कतैर्मार्जयित्वा ।
सुरभिभिररविन्दैश्चम्पकैश्चार्चयित्वा झटिति कनकसूत्रैर्जूटयन्वेष्टयामि ॥१७ ॥
सौवीराञ्जनमिदमम्ब चक्षुषोस्ते विन्यस्तं कनकशलाकया मया यत् ।
तन्न्यूनं मलिनमपि त्वदक्षिसङ्गात् ब्रह्मेन्द्राद्यभिलषणीयतामियाय ॥१८ ॥
मञ्जीरे पदयोर्निधाय रुचिरां विन्यस्य काञ्चीं कटौ मुक्ताहारमुरोजयोरनुपमां नक्षत्रमालां गले ।
केयूराणि भुजेषु रत्नवलयश्रेणीं करेषु क्रमा- त्ताटङ्के तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम् ॥१९ ॥
धम्मिल्ले तव देवि हेमकुसुमान्याधाय फालस्थले मुक्ताराजिविराजमानतिलकं नासापुटे मौक्तिकम् ।
मातर्मौक्तिकजालिकां च कुचयोः सर्वाङ्गुलीषूर्मिकाः कटखां काञ्चनकिङ्किणीर्विनिदधे रत्नावतंसं श्रुतौ ॥२० ॥
मातः फालतले तवातिविमले काश्मीरकस्तूरिका- कर्पूरागरुभिः करोमि तिलकं देहेऽङ्गरागं ततः ।
वक्षोजादिषु यक्षकर्दमरसं सिक्त्वा च पुष्पद्रवं पादौ चन्दनलेपनादिभिरहं संपूजयामि क्रमात् ॥२१ ॥
रत्नाक्षतैस्त्वां परिपूजयामि मुक्ताफलैर्वा रुचिरैरविद्धैः ।
अखण्डितैर्देवि यवादिभिर्वा काश्मीरपङ्काङ्किततण्डुलैर्वा ॥२२ ॥
जननि चम्पकतलैमिदं पुरो मृगमदोपयुतं पटवासकम् ।
सुरभिगन्धमिदं च चतुःसमं सपदि सर्वमिदं परिगृह्यताम् ॥२३ ॥
सीमन्ते ते भगवति मया सादरं न्यस्तमेतत् सिन्दूरं मे हृदयकमले हर्षवर्षं तनोति ।
बालादित्यद्युतिरिव सदा लोहिता यस्य कान्ती- रन्तर्ध्वान्तं हरति सकलं चेतसा चिन्तयैव ॥२४ ॥
मन्दारकुन्दकरवीरलवङ्गपुष्पैः त्वां देवि सन्ततं अहं परिपूजयामि ।
जातीजपावकुलचम्पककेतकादि- नानाविधानि कुसुमानि च तेऽर्पयामि ॥२५ ॥
मालतीवकुलहेमपुष्पिका- काञ्चनारकरवीरकैतकैः ।
कर्णिकारगिरिकर्णिकादिभिः पूजयामि जगदम्ब ते वपुः ॥२६ ॥
पारिजातशतपत्रपाटलैः मल्लिकावकुलचम्पकादिभिः ।
अम्बुजैः सुकुसुमैश्च सादरं पूजयामि जगदम्ब ते वपुः ॥२७ ॥
लाक्षासंमिलितैः सिताभ्रसहितैः श्रीवाससंमिश्रितैः कर्पूराकलितैः शिरैर्मधुयुतैर्गोसर्पिषा लोडितैः ।
श्रीखण्डागरुगुग्गुलुप्रभृतिभिर्नानाविधैर्वस्त्तुभिः धूपं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥२८ ॥
रत्नालंकृतहेमपात्रनिहितैर्गोसर्पिषा लोडितैः दीपैर्दीर्घतरान्धकारभिदुरैर्बालार्ककोटिप्रभैः ।
आताम्रज्वलदुज्ज्वलप्रविलसद्रत्नप्रदीपैस्तथा मातस्त्वामहमादरादनुदिनं नीराजयाम्युच्चकैः ॥२९ ॥
मातस्त्वां दधिदुग्धपायसमहाशाल्यन्नसंतानिकाः सूपापूपसिताघृतैः सवटकैः सक्षौद्ररम्भाफलैः ।
एलाजीरकहिङ्गुनागरनिशाकुस्तुम्भरीसंस्कृतैः शाकैः साकमहं सुधाधिकरसैः संतर्पयाम्यर्चयन् ॥३० ॥
सापूपसूपदधिदुग्धसिताघृतानि सुस्वादुभक्तपरमान्नपुरःसराणि ।
शाकोल्लसन्मरिचिजीरकबाह्निकानि भक्ष्याणि भुङ्क्ष्व जगदम्ब मयार्पितानि ॥३१ ॥
क्षीरमेतदिदंमुत्तमोत्तमं प्राज्यमाज्यमिदमुज्ज्वलं मधु ।
मातरेतदमृतोपमं पयः संभ्रमेण परिपीयतां मुहुः ॥३२ ॥
उष्णोदकैः पाणियुगं मुखं च प्रक्षाल्य मातः कलधौतपात्रे ।
कर्पूरमिश्रेण सकुङ्कुमेन हस्तौ समुद्वर्तय चन्दनेन ॥३३ ॥
अतिशीतमुशीरवासितं तपनीये कलशे निवेशितम् ।
पटपूतमिदं जितामृतं शुचि गङ्गाजलमम्ब पीयताम् ॥३४ ॥
जम्बवाम्ररम्भाफलसंयुतानि द्राक्षाफलक्षौद्रसमन्वितानि ।
सनारिकेलानि सदाडिमानि फलानि ते देवि समर्पयामि ॥३५ ॥
कूश्माण्डकोशातकिसंयुतानि जम्बीरनारङ्गसमन्वितानि ।
सबीजपूराणि सबादराणि फलानि ते देवि समर्पयामि ॥३६ ॥
कर्पूरेण युतैर्लवङ्गसहितैस्तक्कोलचूर्णान्वितैः सुस्वादुक्रमुकैः सगौरखदिरैः सुस्निग्धजातीफलैः ।
मातः कैतकपत्रपाण्डुरुचिभिस्ताम्बूलवल्लीदलैः सानन्दं मुखमण्डनार्थमतुलं ताम्बूलमङ्गीकुरु ॥३७ ॥
एलालवङ्गादिसमन्वितानि तक्कोलकर्पूरविमिश्रितानि ।
ताम्बूलवल्लीदलसंयुतानि पूगानि ते देवि समर्पयामि ॥३८ ॥
ताम्बूलनिर्जितसुतप्तसुवर्णवर्णं स्वर्णाक्तपूगफलमौक्तिकचूर्णयुक्तम् ।
सौवर्णपात्रनिहितं खदिरेन सार्धं ताम्बूलमम्ब वदनाम्बुरुहे गृहाण ॥३९ ॥
महति कनकपात्रे स्थापयित्वा विशालान् डमरुसदृशरूपान्बद्धगोधूमदीपान् ।
बहुघृतमथ तेषु न्यस्य दीपान्प्रकृष्टा- न्भुवनजननि कुर्वे नित्यमारार्तिकं ते ॥४० ॥
सविनयमथ दत्वा जानुयुग्मं धरण्यां सपदि शिरसि धृत्वा पात्रमारार्तिकस्य ।
मुखकमलसमीपे तेऽम्ब सार्थं त्रिवारं भ्रमयति मयि भूयात्ते कृपार्द्रः कटाक्षः ॥४१ ॥
अथ बहुमणिमिश्रैर्मौक्तिकैस्त्वां विकीर्य त्रिभुवनकमनीयैः पूजयित्वा च वस्त्रैः ।
मिलितविविधमुक्तां दिव्यमाणिक्ययुक्तां जननि कनकवृष्टिं दक्षिणां तेऽर्पयामि ॥४२ ॥
मातः काञ्चनदण्डमण्डितमिदं पूर्णेन्दुबिम्बप्रभं नानारत्नविशोभिहेमकलशं लोकत्रयाह्लादकम् ।
भास्वन्मौक्तिकजालिकापरिवृतं प्रीत्यात्महस्ते धृतं छत्रं ते परिकल्पयामि शिरसि त्वष्ट्रा स्वयं निर्मितम् ॥४३ ॥
शरदिन्दुमरीचिगौरबर्णै- र्मणिमुक्ताविलसत्सुवर्णदण्डैः ।
जगदम्ब विचित्रचामरैस्त्वा- महमानन्दभरेण बीजयामि ॥४४ ॥
मार्ताण्डमण्डलनिभो जगदम्ब योऽयं भक्त्या मया मणिमयो मुकुरोऽर्पितस्ते ।
पूर्णेन्दुबिम्बरुचिरं वदनं स्वकीय- मस्मिन्विलोकय विलोलविलोचने त्वम् ॥४५ ॥
इन्द्रादयो नतिनतैर्मकुटप्रदीपै- र्नीराजयन्ति सततं तव पादपीठम् ।
तस्मादहं तव समस्तशरीरमेत- न्नीराजयामि जगदम्ब सहस्रदीपैः ॥४६ ॥
प्रियगतिरतितुङ्गो रत्नपल्याणयुक्तः कनकमयविभूषः स्निग्धगम्भीरघोषः ।
भगवति कलितोऽयं वाहनार्थं मया ते तुरगशतसमेतो वायुवेगस्तुरंगः ॥४७ ॥
मधुकरवृतकुम्भन्यस्तसिन्दूररेणुः कनककलितघण्टाकिङ्कणीशोभिकण्ठः ।
श्रवणयुगलचञ्चच्चामरो मेघतुल्यो जननि तव मुदे स्यान्मत्तमातङ्ग एषः ॥४८ ॥
द्रुततरतुरगैर्विराजमानं मणिमयचक्रचतुष्टयेन युक्तम् ।
कनकमयममुं वितानवन्तं भगवति ते हि रथं समर्पयामि ॥४९ ॥
हयगजरथपत्तिशोभमानं दिशि दिशि दुन्दुभिमेघनादयुक्तम् ।
अतिबहु चतुरङ्गसैन्यमेत- द्भगवति भक्तिभरेण तेऽर्पयामि ॥५० ॥
परिघीकृतसप्तसागरं बहुसंपत्सहितं मयाम्ब ते विपुलम् ।
प्रबलं धरणीतलाभिधं दृढदुर्गं निखिलं समर्पयामि ॥५१ ॥
शतपत्रयुतैः स्वभावशीतैः अतिसौरभ्ययुतैः परागपीतैः ।
भ्रमरीमुखरीकृतैरनन्तैः व्यजनैस्त्वां जगदम्ब वीजयामि ॥५२ ॥
भ्रमरलुलितलोलकुन्तलाली- विगलितमाल्यविकीर्णरङ्गभूमिः ।
इयमतिरुचिरा नटी नटन्ती तव हृदये मुदमातनोतु मातः ॥५३ ॥
मुखनयनविलासलोलवेणी- विलसितनिर्जितलोलभृङ्गमालाः ।
युवजनसुखकारिचारुलीला भगवति ते पुरतो नटन्ति बालाः ॥५४ ॥
भ्रमदलिकुलतुल्यालोलधम्मिल्लभाराः स्मितमुखकमलोद्यद्दिव्यलावण्यपूराः ।
अनुपमितसुवेषा वारयोषा नटन्ति परभृतकलकण्ठ्यो देवि दैन्यं धुनोतु ॥५५ ॥
डमरुडिण्डिमजर्झरझल्लरी- मृदुरवद्रगडद्द्रगडादयः ।
झटिति झाङ्कृतझाङ्कृतझाङ्कृतैः बहुदयं हृदयं सुखयन्तु ते ॥५६ ॥
विपञ्चीषु सप्तस्वरान्वादयन्त्य- स्तव द्वारि गायन्ति गन्धर्वकन्याः ।
क्षणं सावधानेन चित्तेन मातः समाकर्णय त्वं मया प्रार्थितासि ॥५७ ॥
अभिनयकमनीयैर्नर्तनैर्नर्तकीनां क्षनमपि रमयित्वा चेत एतत्त्वदीयम् ।
स्वयमहमतिचितैर्नृत्तवादित्रगीतैः भगवति भवदीयं मानसं रञ्जयामि ॥५८ ॥
तव देवि गुणानुवर्णने चतुरा नो चतुराननादयः ।
तदिहैकमुखेषु जन्तुषु स्तवनं कस्तव कर्तुमीश्वरः ॥५९ ॥
पदे पदे यत्परिपूजकेभ्यः सद्योऽश्वमेधादिफलं ददाति ।
तत्सर्वपापक्षय हेतुभूतं प्रदक्षिणं ते परितः करोमि ॥६० ॥
रक्तोत्पलारक्तलताप्रभाभ्यां ध्वजोर्ध्वरेखाकुलिशाङ्किताभ्याम् ।
अशेषबृन्दारकवन्दिताभ्यां नमो भवानीपदपङ्कजाभ्याम् ॥६१ ॥
चरणनलिनयुग्मं पङ्कजैः पूजयित्वा कनककमलमालां कन्ठदेशेऽर्पयित्वा ।
शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते हृदयकमलमध्ये देवि हर्षं तनोतु ॥६२ ॥
अथ मणिमयञ्चकाभिरामे कनकमयवितानराजमाने ।
प्रसरदगरुधूपधूपितेऽस्मि- न्भगवति भवनेऽस्तु ते निवासः ॥६३ ॥
एतस्मिन्मणिखचिते सुवर्णपीठे त्रैलोक्याभयवरदौ निधाय हस्तौ ।
विस्तीर्णे मृदुलतरोत्तरच्छदेऽस्मि- न्पर्यङ्के कनकमये निषीद मातः ॥६४ ॥
तव देवि सरोजचिह्नयोः पदयोर्निर्जितपद्मरागयोः ।
अतिरक्ततरैरलक्तकैः पुनरुक्तां रचयामि रक्तताम् ॥६५ ॥
अथ मातरुशीरवासितं निजताम्बूलरसेन रञ्जितम् ।
तपनीयमये हि पट्टके मुखगण्डूचजलं विधीयताम् ॥६६ ॥
क्षणमथ जगदम्ब मञ्चकेऽस्मि- न्मृदुतलतूलिकया विराजमाने ।
अतिरहसि मुदा शिवेन सार्धं सुखशयनं कुरु तत्र मां स्मरन्ती ॥६७ ॥
मुक्ताकुन्देन्दुगौरां मणिमयकुटां रत्नताटङ्कयुक्ता- मक्षस्रक्पुष्पहस्तामभयवरकरां चन्द्रचूडां त्रिनेत्राम् ।
नानालंकारयुक्तां सुरमकुटमणिद्योतितस्वर्णपीठां सानन्दां सुप्रसन्नां त्रिभुवनजननीं चेतसा चिन्तयामि ॥६८ ॥
एषा भक्त्या तव विरचिता या मया देवि पूजा स्वीकृत्यैनां सपदि सकलान्मेऽपराधान्क्षमस्व ।
न्यूनं यत्तत्तव करुणया पूर्णतामेतु सद्यः सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः ॥६९ ॥
पूजामिमां यः पठति प्रभाते मध्याह्नकाले यदि वा प्रदोषे ।
ध्रमार्थकामान्पुरुषोऽभ्युपैति देहावसाने शिवभावमेति ॥७० ॥
पूजामिमां पठेन्नित्यं पूजां कर्तुमनीश्वरः ।
पूजाफलमवाप्नोति वाञ्छितार्थं च विन्दति ॥७१ ॥
प्रत्यहं भक्तिसंयुक्तो यः पूजनमिदं पठेत् ।
वाग्वादिन्याः प्रसादेन वत्सरात्स कविर्भवेत् ॥७२ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ देवीचतुःषष्ट्युपचारपूजास्तोत्रं संपूर्णम् ॥