श्रीगणेशाय नम: ॥
गलद्दानगंडं मिलद्भृंगखण्डं चलच्चारुशुण्डं जगत्राणशौण्डम् ।
लसद्दंतकाण्डं विपद्भंगचंडं शिवप्रेमपिंडं भजे वक्रतुंडम् ॥ १ ॥
अनाद्यं तमाद्यं परं तत्त्वमर्थं चिदाकारमेकंतुरीयं त्वमेयम् ।
हरिब्रह्ममृग्यं परब्रह्मरूपं मनोवागतीतं मह: शैवमीडे ॥ ॥ २ ॥
स्वशक्त्यादिशक्त्यंतसिंहासनस्थं मनोहारि सर्वाङ्गरत्नादिभूषम् ।
जटाहींदुगङ्गास्थिशश्यर्कमौलिं परं शक्तिमित्रं नम: पंचवक्रम् ॥ ३ ॥
शिवेशानतत्पूरुषाघोरवामादिभिर्ब्रह्माभिर्ह्रन्मुखै: षड्भिरंगै: ।
अनौपम्यषट्त्रिंशतं तत्त्वविद्यामतीतं परं त्वां कथे वेत्ति को वा ॥ ४ ॥
प्रवालप्रवाहप्रभाशोणमर्धं मरुत्वन्मणिश्रीमह:श्याममर्धम् ।
गणस्यूतमेकं वपुश्चेकमंत: स्मरामि स्मरापत्तिसंपत्तिहेतुम् ॥ ५ ॥
स्वसेवासमायातदेवासुरेन्द्रा नमन्मौलिमंदारमालाभिषिक्तम् ।
नमस्यामि शम्भो पदांभोरुहं ते भवांभोधिपोतं भवानी विभाव्यम् ॥ ६ ॥
जगन्नाथ मन्नाथ गौरीसनाथ प्रपन्नानुकंपिन्विपन्नार्तिहारिन् ।
मह:स्तोममूर्ते समस्ते कबन्धो नमस्ते नमस्ते पुनस्ते नमोऽस्तु ॥ ७ ॥
महादेव देवेश देवादिदेव स्मरारे पुरारे यमारे हरेति ॥
ब्रुवाण:स्मरिष्यामि भक्त्या भवंतं ततो मे दयाशीलदेव प्रसीद ॥ ८ ॥
विरूपाक्ष विश्वेश विद्यादिकेश त्रयीमूल शंभो शिव त्र्यंबकत्वम् ।
प्रसीद स्मर त्राहि पश्यावपुष्य क्षमस्वाप्नुहीति क्षपा हि क्षिपाम: ॥ ९ ॥
त्वदन्य:शरण्य: प्रपन्नस्य नेति प्रसीद स्मरन्नेव हन्यास्तु दैन्यम६ ।
नचेत्ते भवद्भक्तंवात्सल्यहानिस्ततो मे दयालो दयां संनिधेहि ॥ १० ॥
अयं दानकालस्त्वहं दानपात्रं भवन्नाथ दातात्वदन्यं न याचे ॥
भवद्भक्तिमेव स्थिरां देहि मह्यं कृपाशील शंभो कृतार्थोऽस्मि तस्मात् ॥ ११ ॥
पशुं वेत्सि चेन्मां त्वमेवाधिरूढ: कलंकीर्ति वा मूर्ध्निधत्सेत्वमेव ।
द्विजिह्व: पुन: सोपि ते कंठभूषा त्वदङ्गीकृता: शर्व सर्वेऽपि धन्या: ॥ १२ ॥
न शक्नोमि कर्तुं परद्रोहलेशं कथं प्रीयसे त्वं न जाने गिरीश ।
तदाहि प्रसन्नोऽसि कस्यापि कांतासुतद्रोहिणो वा पितृद्रोहिणी वा ॥ १३ ॥
स्तुतिं ध्यानमर्चां यथावद्विधातुं भजन्नप्यजानन् महेशावलंबे ।
त्रसंतं सुतं त्रातुमग्र मृकंडोर्यमप्राणनिर्वापणं त्वत्पदाब्जम६ ॥ १४ ॥
अकंठेकलंकदनंगेभुजंगादपाणौकपालादभालेऽनलाक्षात् ।
अमौलौ शशांकादवामेकलत्रादहं देवमन्यं न मन्ये न मन्ये ॥ १५ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छंकराचार्य विरचितं
श्रीशिवभुजंगप्रयातस्तोत्रं संपूर्णम् ।