श्रीगणेशाय नम: ॥ हिमालय उवाच ॥
त्वं ब्रह्मा सृष्टिकर्ता च त्वं विष्णु: परिपालक: ।
त्वं शिव: शिवदोऽनंत: सर्वसंहारकारक: ॥ १ ॥
त्वमीश्वरो गुणातीतो ज्योतिरूप सनातन: ।
प्रकृत: प्रकृतीशश्च प्राकृत: प्रकृते पर: ॥ २ ॥
नानारूपविधाता त्वं भक्तानां ध्यानहेतवे ।
येषु रूपेषु यत्प्रीतिस्तत्तद्रूपं बिभर्षि च ॥ ३ ॥
सूर्यस्त्वं सृष्टिजनक आधार: सर्वतेजासाम् ।
सोमस्त्वं सस्यपाता च सततं शीररश्मिना ॥ ४ ॥
वायुस्त्वं वरुणत्वं च विद्वांश्च विदुषां गुरु: ।
मृत्युञ्जयो मृत्युमृत्यु: कालकालो यमांतक: ॥ ५ ॥
वेदस्त्वं वेदकर्ता च वेदवेदांगपारग: ।
विदुषां जनकस्त्वं च विद्वांश्च विदुषं गुरु ॥ ६ ॥
मंत्रस्त्वं हि जपस्त्वं हि तपस्त्वं तत्फलप्रद: ।
वाक् त्वं वागधिदेवी त्वं तत्कर्ता तत्गुरु स्वयम् ॥ ७ ॥
अहो सरस्वतीबीजं कस्त्वां स्तोतुमिहेश्वर: ।
इत्येवमुक्त्वा शैलेन्द्रस्तस्थौधृत्वा पदांब्रुजम् ॥ ८ ॥
तत्रोवास तमाबोध्य चावरुह्यवृषाच्छिव: ।
स्तोत्रमेतन्महापुण्यं त्रिसंध्यं य: पठेन्नर: ॥ ९ ॥
मुच्यते सर्वपापेभ्यो भयेभ्यश्च भवार्णवे ।
अपुत्रो लभते पुत्रं मासमेकं पठेद्यपि ॥ १० ॥
भार्याहीनो लभेद्भार्या सुशीलां सुमनोहराम् ।
चिरकालगतं वस्तु लभते सहसा ध्रुवम् ॥ ११ ॥
राज्यभ्रष्टो लभेद्राज्यं शंकरस्य प्रसादत: ।
कारागारे श्मशाने च शत्रुगस्तेऽतिसंकटे ॥ १२ ॥
नगभीरेऽतिजलाकीर्णे भग्नपोते विषादने ।
रणमध्ये महीभीते हिंस्त्रजन्तुसमन्विते ॥ १३ ॥
सर्वतो मुच्यते स्तुत्वा शंकरस्य प्रसादत: ॥ १४ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे हिमालयकृतं शिवस्तोत्रम्