शिवकामसुन्दरीशं शिवगङ्गातीरकल्पितनिवेशम् । शिवमाश्रये द्युकेशं शिवमिच्छन्मा वपुष्यभिनिवेशम् ॥१॥
गीर्वाणचक्रवर्ती गीश्चेतोमार्गदूरतोवर्ती । भक्ताशयानुवर्ती भवतु नटेशोऽखिलामयनिवर्ती ॥२॥
वैयाघ्रपादभाग्यं वैयाघ्रं चर्म कंचन वसानम् । वैयाकरणफणीड्यं वैयासिक्या गिरा स्तुतं प्रणुमः ॥३॥
हाटकसभानिवासः शाटकतापन्नसकलहरिदन्तः । घोटकनिगमो मायानाटकसाक्षी जगत्पतिर्जयति ॥४॥
शैलूषराजमाद्यं मालूरप्रसवमालिकाभरणम् । पीलूपमोऽन्धुजीर्यच्छालूराभः कथं विजानीयाम् ॥५॥
कनकसभैकनिकेतं कठिनपुराणोक्तिसारसंकेतम् । नाराधयन्ति के तं नारायण्या युतं स्वतोकेतम् ॥६॥
तिल्लवने क्षुल्लवने पल्लवसंभिन्नफुल्लपुष्पघने । चिल्लहरीमुल्ललयन् वल्लभया भिल्लतल्लजो नटति ॥७॥
वैराजहृत्सरोजे वैराजाद्यैः स सामभिः स्तव्यः । वैराग्यादिगुणाढ्यैः वैराद्युत्सृज्य दृश्यते नृत्यन् ॥८॥
ढक्कानिनदैः सूत्राण्यङ्गदनादैरहो महद्भाष्यम् । व्याकरणस्य विवृण्वन् नृत्यति भृत्यान् कृतार्थयन् मर्त्यान् ॥९॥
नटनायक नटनाय क इह सुकृती नो तव स्पृहयेत् । मन्~जुलतामञ्जुलतामहिते वस्तुं च तिल्लवने ॥१०॥
अतिदुरितोत्तारकृते चिरधृतहर्षः सभापतिः सद्यः । अगणेयाघघनं मामासाद्यानन्दमेदुरो नटति ॥११॥
मत्पादलग्नजनतामुद्धर्तास्मीति चित्सभानाथः । ताण्डवमिषोद्धृतैकसवाङ्घ्रिः सर्वान् विबोधयति ॥१२॥
आपन्नलोकपालिनि कपालिनि स्त्रीकृताङ्गपालिनि मे । शमितविधिश्रीशरणे शरणा धीरस्तु चित्सभाशरणे ॥१३॥
भिक्षुर्महेश्वरोऽपि श्रुत्या प्रोक्तः शिवोऽप्युग्रः । अपि भवहारी च भवो नटोऽपि चित्रं सभानाथः ॥१४॥
नृत्यन्नटेशमौलित्वङ्गद्गङ्गातरङ्गशीकरिणः । भूषाहिपीतशिष्टाः पुनन्तु मां तिल्लवनवाताः ॥१५॥
कनकसभासम्राजो नटनारम्भे झलंझलंझलिति । मञ्जीरमञ्जुनिनदा ध्वनियुः श्रोत्रे कदा नु मम ॥१६॥
पर्वतराजतनूजाकुचतटसंक्रान्तकुङ्कुमोन्मिश्राः । नटनार्भटीविधूता भूतिकणास्ते स्पृशेयुरपि मेऽङ्गम् ॥१७॥
नटनोच्चलत्कपालामर्दितचन्द्रक्षरत्सुधामिलिताः । आदिनटमौलितटिनीपृषतो गोत्रेऽत्र मे स्खलेयुः किम् ॥१८॥
पश्यानि सभाधीशं कदा नु तं मूर्धनि सभाधीशम् । यः क्षयरसिकं कालं जितवान् धत्ते च शिरसि कङ्कालम् ॥१९॥
तनुजायातनुजायासक्तानां दुर्लभं सभानाथम् । नगतनया नगतनया वशयति दत्त्वा शरीरार्धम् ॥२०॥
आनन्दताण्डवं यस्तवेश पश्येन्न चापि नृगणे यः । स च स च न चन्द्रमौले विद्वद्भिर्जन्मवत्सु विगणेयः ॥२१॥
कामपरवशं कृत्वा कामपरवशं त्वकृत्वा माम् । कनकसभां गमयसि रे कनकसभां हा न यापयसि ॥२२॥
नटनं विहाय शंभोर्घटनं पीनस्तनीभिराशास्से । अटनं भवे दुरन्ते विट नन्दसि न स्वभूमसुखम् ॥२३॥
कलितभवलङ्घनानां किं करैव चित्सुखघनानाम् । सुमुदां सापघनानां शिवकामेश्याः कृपामृतघनानाम् ॥२४॥
निनिलीये मायायां न विलिये वा शुचा परं लीये । आनन्दसीमनि लसत्तिल्लवनीधामनि स्वभूमनि तु ॥२५॥
अधिहेमसभं प्रसभं बिसभङ्गवदान्यधन्यरुचम् । श्रुतगलगरलं सरलं निरतं भक्तावने भजे देवम् ॥२६॥
सभया चित्सभयासीन्माया मायाप्रबोधशीतरुचेः । सुहिता धीः सुहिता मे सोमा सोमार्धधारिणी मूर्तिः ॥२७॥
पत्या हेमसभायाः सत्यानन्दैकचिद्वपुषा । कत्यार्ता न त्राता नृत्यायत्तेन मादृशा मर्त्याः ॥२८॥
भजतां मुमुक्षया त्वां नटेश लभयास्त्रयः पुमर्थाश्च । फललिप्सयाम्रभाजां छायासौरभ्यमाधव्य इव ॥२९॥
कञ्चुकपञ्चकनद्धं नटयसि मां किं नटेश नाटयसि । नटसि निरावृतिसुखितो जहि मायां त्वादृशोऽहमपि तत् स्याम् ॥३०॥
आस्तां नटेश तद्यन्नटति भवानम्बरे निरालम्बे । त्वन्नटनेऽपि हि नटनं वेदपुरानागमाः समादधति ॥३१॥
वेधसि सर्वाधीशेऽमेधसि वा मादृशे सरूपकृता । रोधसि शिवगङ्गाया बोधसिरा काचिदुल्लसति ॥३२॥
हट्टायितं विमुक्तेः कुट्टाकं तं भजामि मायायाः । भट्टारकं सभायाः किट्टात्मन्यङ्गके त्यजन्ममताम् ॥३३॥
श्रीमच्चिदम्बरेशादन्यत्रानन्दताण्डवासक्तात् । ब्राह्मं लक्षणमास्ते कुत्रचिदानन्दरूपता देवे ॥३४॥
क्षुल्लककामकृतेऽपि त्वत्सेवा स्याद्विमुक्तिमपि दात्री । पीतामृतोऽप्युदन्याशान्त्यै स्याच्चित्सभाधिपामर्त्यः ॥३५॥
सत्यं सत्यं गत्यन्तरमुत्सृज्य ते पदापात्यम् । अत्यन्तार्तं भृत्यं न त्यज नित्यं नटेश मां पाहि ॥३६॥
षट्त्रिंशता तत्त्वमयीभिराभिः सोपानभूताभिरुमासहायम् । आर्याभिराद्यं परतत्त्वभूतं चिदम्बरानन्दनटं भजध्वम् ॥३७॥
॥ इति श्रीतत्त्वार्यास्तवः संपूर्णः॥