श्रीगणेशाय नम: ॥
सत्यं ब्रवीमि परलोकहितं ब्रवीमि सारम ब्रवीम्युपनिषद्ध दयं ब्रवीमि ॥ संसारमुल्बणमसारमवाप्य जंतो: सारोयमीश्वरपदांबुरुहस्य सेवा ॥ १ ॥
ये नार्चयंति गिरिशं समये प्रदोषे ये नार्चितं शिवमपि प्रणमंति चान्ये ।
एतत्कथां श्रुति पुटैर्न पिबंति मूढास्ते जन्मजन्मसु भवंति नरा दरिद्रा: ॥ २ ॥
ये वै प्रदोषसमये परमेश्वरस्य कुर्वंत्यनन्यमनसोंघ्रिसरोजपूजाम् ।
नित्यं प्रवृद्धधन धान्यकलत्रपुत्रसौभाग्यसंपदधिकास्त इहैव लोके ॥ ३ ॥
कैलास शैलभुवने त्रिजगज्जनित्रीं गौरीं निवेश्य कनकाचितरनपीठे ।
नृत्यं विधातुमभिवांछति शूलपाणौ देव: प्रदोषसमये न भजंति सर्वे ॥ ४ ॥
वाग्देवी धृतवल्लकी शतमखो वेणुं दधतपद्मजस्तालोन्निद्रकरो रमा
भगवतीगेयप्रयोगान्विता ।
विष्णु: सांद्रमृदंगवादनपटुर्देवा: समंतास्थिता: सेवन्ते तमनु प्रदोषसमये देवं
मृडानीपतिम् ॥ ५ ॥
गन्धर्वयक्षपतगोरगसिद्धसाध्यविद्याधरामरवराप्सरसां गणाश्च येऽन्ये ।
त्रिलोकनिलया: सहभूतवर्गा: प्राप्ते प्रदोषसमये हरपार्श्वसंस्था ॥ ६ ॥
अत: प्रदोषे शिव एक एव पूज्योऽथ नान्ये हरिपद्मजाद्या: ।
तस्मिन्महेशेन विधिनेज्यमाने सर्वे प्रसीदंति सुराधिनाथा: ॥ ७ ॥
एष ते तनय: पूर्वजन्मनि ब्राह्मणोत्तम: । प्रतिग्रहैर्वयो निन्ये न दानाद्यै: सुकर्मभि: ॥ ८ ॥
अतो दारिद्र्यमापन्नपुत्रस्ते द्विजभामिनि । तद्दोष परिहारार्थं शरणं यातु शंकरम् ॥ ९ ॥
इति श्रीस्कंदपुराणे प्रदोषस्तोत्राष्टकं सम्पूर्णम् ।