श्रीगणेशाय नम: । असित उवाच ॥
जगद्गुरो नमस्तुभ्यम शिवाय शिवदाय च ।
योगींद्राणां च योगींद्र गुरूणां गुरवे नम: ॥ १॥
मृत्योमृत्युस्वरूपेण मृत्युसंसाखण्डन ।
मृत्योरीश मृत्युबीज मृत्युंजय नमोऽस्तु ते ॥ २ ॥
कालरूपं कलयतां कालकालेश कारण ।
कालादतीत कालस्थ कालकाल नमोऽस्तु ते ॥ ३ ॥
गुणातीत गुणाधार गुणबीज गुणात्मक ।
गुणीश गुणिनां बीज गुणिनां गुरवे नम: ॥ ४ ॥
ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मभावे च तत्पर ।
ब्रह्मबीजस्वरूपेण ब्रह्मबीज नमोऽस्तु ते ॥ ५ ॥
इति स्तुत्वां शिवं नत्वा पुरस्तस्थौ मुनीश्वर: ।
हीनवत्साश्रुनेत्रश्च य: पठेत् । वर्षमेकं हविष्याशी शंकरस्य महात्मन: ॥ ७ ॥
स लभेद्वैष्णवं पुत्रं ज्ञानिनं चिरजीविनम् ।
भवेद्धनाढ्यो दु:खी च मूको भवति पण्डित: ॥ ८ ॥
अभार्यो लभते भार्यां सुशीलां च पतिव्रताम् ।
इह लोके सुखं भुक्त्वा यात्यंते शिवसन्निधम् ॥ ९ ॥
इदं स्तोत्रं पुरा दत्तं ब्रह्मणा च प्रचेतसे ।
प्रचेतसा स्वपुत्रायासिताया दत्तमुत्तमम् ॥ १० ॥
इतिश्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे असिकृतशिवस्तोत्रम् ।