श्रीगणेशाय नमः । श्रीमहादेव उवाच ।
ततो रामः स्वयं प्राह हनूमंतमुपस्थितम् । श्रृणु तत्त्वं प्रवक्ष्यामि ह्यात्मानात्मपरात्मनाम् ॥ १ ॥
आकाशस्य यथा भेदस्त्रिविधो दृश्यते महान् । जलाशये महाकाशस्तदवच्छिन्न एव हि ॥ २ ॥
प्रतिबिंबाख्यमपरं दृश्यते त्रिविधं नभः । बुद्ध्यवचिन्नचैतन्यमेकं पूर्णमथापरम् ॥ ३ ॥
आभासस्त्वपरं बिंबभूतमेवं त्रिधा चितिः । साभासबुद्धेः कर्तुत्वमविच्छिन्नेविकारिणि ॥ ४ ॥
साक्षिण्यारोप्यते भ्रांत्या जीवत्वं च तथाऽबुधैः । आभासस्तु मृषाबुद्धिरविद्याकार्यमुच्यते ॥ ५ ॥
अविच्छिन्नं तु तद् ब्रह्म त्रिच्छेदस्तु विकल्पितः । विच्छिन्नस्य पूर्णेन एकत्वं प्रतिपाद्यते ॥ ६ ॥
तत्त्वमस्यादिवाक्यैश्च साभासस्याहमस्तथा । ऐक्यज्ञानं यदोत्पन्नं महावाक्येन चात्मनोः ॥ ७ ॥
तदाऽविद्या स्वकार्येश्च नश्यत्येव न संशयः । एतद्विज्ञाय मद्भावायोपपद्यते ॥ ८ ॥
मद्भक्तिविमुखानां हि शास्त्रगर्तेषु मुह्यताम् । न ज्ञानं न च मोक्षःस्यात्तेषां जन्मशतैरपि ॥ ९ ॥
इदं रहस्यं ह्रदयं ममात्मनो मयैव साक्षात्कथितं तवानघ ।
मद्भक्तिहीनाय शठाय च त्वया दातव्यमैन्द्रादपि राज्यतोऽधिकम् ॥ १० ॥
इति श्रीमदध्यात्मरामायण-बालकांडोक्तं श्रीरामह्रदयं संपूर्णम् ।