श्रीगणेशाय नमः । श्रीमहादेव उवाच ।
नमोऽस्तु रामाय सशक्तिकाय नीलोत्पलश्यामकोमलाय ।
किरीटहाराङ्गदभूषणाय सिंहासनस्थाय महाप्रभाय ॥ १ ॥
त्वमादिमध्यांतविहीन एकः स्रृजस्यवस्यत्सि च लोकजातम् ।
स्वमायया तेन न लिप्यसे त्वं यत्स्वे सुखेऽजस्त्ररतोऽनवद्यः ॥ २॥
लीलां विधत्से गुणसंवृतस्त्वं प्रसन्नभक्तानुविधानहेतोः ।
नानाऽवतारैः सुरमानुषाद्यैः प्रतीयसे ज्ञानिभिरेव नित्यम् ॥ ३ ॥
स्वांशेन लोकं सकलं विधाय तं बिभर्षि च त्वं तदधः फणीश्वरः ।
उपर्यधो भान्वनिलोड्डपौषधीन्प्रकर्षरूपोवसि नैकधा जगत् ॥४॥
त्वमिह देहभृतां शिखिरूपः पचसि भक्तमशेषमजस्त्रम् ।
पवनपंचकरूपसहायो जगदखंडमनेन बिभर्षि ॥ ५ ॥
चंद्रसूर्यशिखिमध्यगतं यत्तेज ईश चिदशेषतनूनाम् ।
प्राभवत्तनुभृतामिह धैर्यं शौर्यमायुरखिलं तव सत्त्वम् ॥ ६ ॥
त्वं विरिञ्चिशिवविष्णुविभेदात्कालकर्मशशिसूर्यविभागात् ।
वादिनां पृथगिवेश विभासि ब्रह्म निश्चितमनन्यदिहैकम् ॥ ७ ॥
मत्स्यादिरूपेण यथा त्वमेकः श्रुतौ पुराणेषु च लोकसिद्धः ।
तथैव सर्वं सदसद्विभागस्त्वमेव नान्यद्भवतो विभाति ॥ ८ ॥
यद्यत्समुत्पन्नमनन्तसृष्टावुत्पत्स्यते यच्च भवच्च यच्च ।
न दृश्यते स्थावरजंगमादौ त्वया विनाऽतः परतः परस्त्वम् ॥ ९ ॥
तत्त्वं न जानंति परात्मनस्ते जनाः समस्तास्तव माययातः ।
त्वद्भक्तसेवामलमानसानां विभाति तत्त्वं परमेकमैशम् ॥ १० ॥
ब्रह्मादयस्ते न विदुः स्वरूपं चिदात्मतत्त्वं बहिरर्थभावाः ।
ततो बुधस्त्वामिदमेव रूपं भक्त्या भजन्मुक्तिमुपैत्यदुःखः ॥ ११ ॥
अहं भवन्नामगुणैः कृतार्थो वसामि काश्यामनिशं भवान्या ।
मुमूर्षमाणस्य विमुक्तयेऽहं दिशामि मंत्रं तव राम नाम ॥ १२ ॥
इमं स्तवं नित्यमनन्यभक्त्या श्रृण्वन्ति गायंति लिखंति ये वै ।
ते सर्व्सौख्यं परमं च लब्ध्वा भवत्पदं यान्ति भवत्प्रसादात् ॥ १३ ॥
इति श्रीमहादेवकृतस्तोत्र संपूर्णम् ।