श्रीगणेशाय नमः ।
अस्य श्रीरामचंद्रस्तवराजस्तोत्रमंत्रस्य सनत्कुमार ऋषिः ।
श्रीरामो देवता । अनुष्टुप्छंदः ।
सीता बीजम् । हनुमान शक्तिः । श्रीरामप्रीत्यर्थे जपे विनियोगः ।
सूत उवाच ।
सर्वशास्त्रार्थतत्त्वज्ञं व्यासं सत्यवतीसुतम् ।धर्मपुत्रः प्रह्रष्टात्मा प्रत्युवाच मुनीश्वरम् ॥ १ ॥
युधिष्ठिर उवाच ।
भगवन्योगिनां श्रेष्ठ सर्वशास्त्रविशारद । किं तत्त्वं किंपरं जाप्यं किं ध्यानं मुक्तिसाधनम् ॥ २ ॥
वेदव्यास उवाच ।
श्रोतुमिच्छामि तत्सर्वं ब्रूहि मे मुनिसत्तम । धर्मराज महाभाग श्रृणु वक्ष्यामि तत्त्वतः ॥ ३ ॥
यत्परं यद्गुणातीतं यज्योतिरमलं शिवम् । तदे परमं तत्त्वं कैवल्यपदकारणम् ॥ ४ ॥
श्रीरामेति परं जाप्यं तारकं ब्रह्मसंज्ञकम्। ब्रह्महत्यादिपापघ्नमिति वेदविदो विदुः ॥ ५ ॥
श्रीराम रामेति जना ये जपंति च सर्वदा । तेषां भुक्तिश्च-मुक्तिश्च भविष्यति न संशयः ॥ ६ ॥
स्तवराजं पुरा प्रोक्तं नारदेन च धीमता । तत्सर्वं संप्रवक्ष्यामि हरिध्यानपुरस्सरम् ॥ ७ ॥
तापत्रयाग्निशमनं सर्वाघौघनिकृंतनम् । दारिद्र्यदुःखशमनं सर्वसंपत्करं शिवम् ॥ ८ ॥
विज्ञानफलदं दिव्यं मोक्षैकफलसाधनम् । नमस्कृत्य प्रवक्ष्यामि रामं कृष्णं जगन्मयम् ॥ ९ ॥
अयोध्यानगरे रम्ये रत्नमंडपमध्यगे । स्मरेत्कल्पतरोर्मूले रत्नसिंहासनं शुभम् ॥ १० ॥
तन्मध्येऽष्टदलं पद्मं नानारत्नैश्च वेष्टितम् । स्मरेन्मध्ये दाशरथिं सहस्त्रादित्यतेजसम् ॥ ११ ॥
पितुरंकगतं राममिन्द्रनीलमणिप्रभम् । कोमलांगं विशालाक्षं विद्युद्वर्णांबरावृतम् ॥ १२ ॥
भानुकोटिप्रतीकाशं किरीटेन विराजितम् । रत्नग्रैवेयकेयूररत्नकुण्डलमंडितम् ॥ १३ ॥
रत्नकंकणमंजीरकटिसूत्रैरलंकृतम् । श्रीवत्सकौस्तुभोरस्कं मुक्ताहारोपशोभितम् ॥ १४ ॥
दिव्यरत्नसमायुक्तमुद्रिकाभिरलंकृतम् । राघवं द्विभुजं बालं राममीषत्स्मिताननम् ॥ १५ ॥
तुलसीकुंदमंदारपुष्पमाल्यैरलंकृतम् । कर्पूरागरुकस्तूरिदिव्यगंधानुलेपनम् ॥ १६ ॥
योगाशास्त्रेष्वभिरतं योगेशं योगदायकम् । सदा भरतसौमित्रिशत्रुघ्नैरुपशोभितम् ॥ १७ ॥
विद्याधरसुराधीशसिद्धगंधर्वकिन्नरैः । योगीन्द्रैर्नारदाद्यैश्चस्तूयमानमहर्निशम् ॥ १८ ॥
विश्वामित्रवसिष्ठादिमुनिभिः परिसेवितम् । सनकादिमुनिश्रेष्ठैर्योगिवृन्दैश्च सेवितम् ॥ १९ ॥
रामं रघुवरं वीरं धनुर्वेदविशारदम् । मंगलायतनं देवं रामं राजीवलोचनम् ॥ २० ॥
सर्वशास्त्रार्थतत्त्वज्ञमानन्दकरसुन्दरम् । कौसल्यानंदनं रामं धनुर्बाणधरं हरिम् ॥ २१ ॥
एवं संचियतन् विष्णुं सज्ज्योतिरमलं विभुम् । प्रह्रष्टमानसो भूत्वा मुनिवर्यः स नारदः ॥ २२ ॥
सर्वलोकहितार्थाय तुष्टाव रघुनंदनम् । कृताञ्जलिपुटो भूत्वा चिंतयन्नद्भुतं हरिम् ॥ २३ ॥
यदेकं यत्परं नित्यं यदनन्तं चिदात्मकम् । यदेकं व्यापकं लोके तद्रूपं चिंतयाम्यहम् ॥ २४ ॥
विज्ञानहेतुं विमलायताक्षं प्रज्ञानरूपं स्वसुखैकहेतुम । श्रीरामचन्द्रं हरिमादिदेवं परात्परं राममहं भजामि ॥ २५ ॥
कविं पुराणं पुरुषं पुरस्तात्सनातनं योगिनमीशितारम् । अणोरणीयांसमनंतवीर्यं प्राणेश्वरं राममसौ ददर्श ॥ २६ ॥
नारद उवाच ॥ नारायणं जगन्नाथमभिरामं जगत्पतिम् । कविं पुराणं वागीशं रामं दशरथात्मजम् ॥ २७ ॥
राजराजं रघुवरं कौसल्यानंदवर्धनम् । भर्गं वरेण्यं विश्वेशं रघुनाथं जगद्गुरुम् ॥ २८ ॥
सत्यं सत्यप्रियं श्रेष्ठं जानकीवल्लभं विभुम् । सौमित्रिपूर्वजं शान्तं कामदं कमलेक्षणम् ॥ २९ ॥
आदित्यं रविमीशानं घृणिं सूर्यमनामयम् । आनंदरूपिणं सौम्यं राघवं करुणामयम् ॥ ३० ॥
जामदग्निं तपोमूर्ति रामं परशुधारिणम् । वाक्पतिं वरदं वाच्यं श्रीपतिं पक्षिवाहनम् ॥ ३१ ॥
श्रीशार्ङ्गधारिणं रामं चिन्मयानंदविग्रहम् । हलधृग्विष्णुमीशानं बलरामं कृपानिधिम् ॥ ३२ ॥
श्रीवल्लभं कृपानाथं जगन्मोहनमच्युतम् । मत्स्यकूर्मवराहादिरूपधारिणमव्ययम् ॥ ३३ ॥
वासुदेवं जगद्योनिमनादिनिधनं हरिम् । गोविंदं गोपतिं विष्णुं गोपीजनमनोहरम् ॥ ३४ ॥
गोगोपालपरीवारं गोपकन्यासमावृतम् । विद्युत्पुञ्जप्रतीकाशं रामं कृष्णं जगन्मयम् ॥ ३५ ॥
गोगोपिकासमाकीर्ण वेणुवादनतत्परम् । कामरूपं कलावंतं कामिनीकामदं विभुम् ॥ ३६ ॥
मन्मथं मथुरानाथं माधवं मकरध्वजम् । श्रीधरं श्रीकरं श्रीशं श्रीनिवासं परात्परम् ॥ ३७ ॥
भूतेशं भूपति भद्रं विभूतिं भूमिभूषणम् । सर्वदुःखहरं वीरं दुष्टदानववैरिणम् ॥ ३८ ॥
श्रीनृसिंहं महाबाहुं महांतं दीप्ततेजसम् । चिदानंदमयं नित्यं प्रणवं ज्योतिरूपिणम् ॥ ३९ ॥
आदित्यमंडलगतं निश्चितार्थस्वरूपिणम् । भक्तिप्रियं पद्मनेत्रं भक्तानामीप्सितप्रदम् ॥ ४० ॥
कौसल्येयं कलामूर्तिं काकुत्स्थं कमलाप्रियम् । सिंहासने समासीनं नित्यव्रतकल्मषम् ॥ ४१ ॥
विश्वामित्रप्रियं दान्तं स्वदारनियतव्रतम् । यज्ञेशं यज्ञपुरुषं यज्ञपालनतत्परम् ॥ ४२ ॥
सत्यसंधं जितक्रोधं शरणागतवत्सलम् । सर्वक्लेशापहरणं बिभीषणवरप्रदम् ॥ ४३ ॥
दशग्रीवहरं रौद्रं केशवं केशिमर्दनम् । वालिप्रमथनं वीरं सुग्रीवेप्सितराज्यदम् ॥ ४४ ॥
नरवानरदेवैश्च सेवितं हनुमत्प्रियम् । शुद्धं सूक्ष्मं परं शांतं तारकब्रह्मरूपिणम् ॥ ४५ ॥
सर्वभूतात्मभूतस्थं सर्वाधारं सनातनम् । सर्वकारणकर्तारं निदानं प्रकृतेः परम् ॥ ४६ ॥
निरामयं निराभासं निरवद्यं निरञ्जनम् । नित्यानन्दं निराकारमद्वैतं तमसः परम् ॥ ४७ ॥
परात्परतरं तत्त्वं सत्यानन्दं चिदात्मकम् । मनसा शिरसा नित्यं प्रणमामि रघूत्तमम् ॥ ४८ ॥
सूर्यमंडलमध्यस्थं रामं सीतासमन्वितम् । नमामि पुण्डरीकाक्षममेयं गुरुतत्परम् ॥ ४९ ॥
नमोऽस्तु वासुदेवाय ज्योतिषां पतये नमः । नमोऽस्तु रामदेवाय जगदानंदरूपिणे ॥ ५० ॥
नमो वेदांतनिष्ठाय योगिने ब्रह्मवादिने । मायामयनिरासाय प्रसन्नजनसेविने ॥ ५१ ॥
वंदामहे महेशानचण्डकोदंडखंडनम् । जानकीह्रदयानंदवर्धनं रघुनंदनम् ॥ ५२ ॥
उत्फुल्लामलकोमलोत्पलदलश्यामाय रामाय ते कामाय प्रमदामनोहरगुणग्रामाय रामात्मने ।
योगारूढमुनींद्रमानससरोहंसाय संसारविध्वंसाय स्फुरदोजसे रघुकुलोत्तंसाय पुंसे नमः ॥ ५३ ॥
भवोद्भवं वेदविदां वरिष्ठमादित्यचंद्रानलसुप्रभावम् सर्वात्मकं | सर्वगतस्वरूपं नमामि रामं तमसः परस्तात् ॥ ५४ ॥
निरंजनं निष्प्रतिमं निरीहं निराश्रयं निष्कलमप्रपंचम् । नित्यं ध्रुवं निर्विषयस्वरूपं निरंतरं राममहं भजामि ॥ ५५ ॥
भवाब्धिपोतं भरताग्रजं तं भक्तिप्रियं भानुकुलप्रदीपम् । भूतत्रिनाथं भुवनाधिपं तं भजामि रामं भवरोगवैद्यम् ॥ ५६ ॥
सर्वाधिपत्यं समरांगधीरं सत्यं चिदानंदमयस्वरूपम् । सत्यं शिवं शांतिमयं शरण्यं सनातनं राममहं भजामि ॥ ५७ ॥
कार्यक्रियाकारणप्रमेयं कविं पुराणं कमलायताक्षम् । कुमारवेद्यं करुणामयं तं कल्पद्रुमं राममहं भजामि ॥ ५८ ॥
त्रैलोक्यनाथं सरसीरुहाक्षं दयानिधिं द्वंद्वविनाशहेतुम् । महाबलं वेदनिधिं सुरेशं सनातनं राममहं भजामि ॥ ५९ ॥
वेदान्तवेद्यं कविमीशितारमनादिमध्यांतमचिंत्यमाद्यम् । अगोचरं निर्मलमेकरूपं नमामि रामं तमसः परस्तात् ॥ ६० ॥
अशेषवेदात्मकमादिसंज्ञमजं हरिं विष्णुमनंतमाद्यम् । अपारसंवित्सुखमेकरूपं परात्परं राममहं भजामि ॥ ६१ ॥
तत्त्वस्वरूपं पुरुषं पुराणं स्वतेजसा पूरितविश्वमेकम् । राजाधिराजं रविमंडलस्थं विश्वेश्वरं राममहं भजामि ॥ ६२ ॥
लोकाभिरामं रघुवंशनाथं हरिं चिदानन्दमयं मुकुंदम् । अशेषविद्याधिपतिं कवीन्द्रं नमामि रामं तमसः परस्तात् ॥ ६३ ॥
योगिंद्रसंघैश्च सुसेव्यमानं नारायणं निर्मलमादिदेवम् । नतोऽस्मि नित्यं जगदेकनाथमादित्यवर्णं तमसः परस्तात् ॥ ६४ ॥
विभूदिदं विश्वसृजं विरामं राजेन्द्रमीशं रघुवंशनाथम् । अचिंत्यमव्यक्तनंतमूर्ति ज्योतिर्मयं राममहं भजामि ॥ ६५ ॥
अशेषसंसारविहारहीनमादित्यगं पूर्णसुखाभिरामम् । समस्तसाक्षिं तमसः परस्तान्नारायणं विष्णुमहं भजामि ॥ ६६ ॥
मुनींद्रगुह्यं परिपूर्णकामं कलानिधिं कल्मषनाशहेतुम् । परात्परं यत्परमं पवित्रं नमामि रामं महतो महांतम् ॥ ६७ ॥
ब्रह्मा विष्णुश्च रुद्रश्च देवेन्द्रो देवतास्तथा । आदित्यादिग्रहाश्चैव त्वमेव रघुनंदन ॥ ६८ ॥
तापसा ऋषयः सिद्धा साध्याश्च मरुतस्तथा । विप्रा वेदास्तथा यज्ञाः पुराणं धर्मसंहिताः ॥ ६९ ॥
वर्णाश्रमास्तथा धर्मा वर्णधर्मास्तथैव च । यक्षराक्षसगंधर्वा दिक्पाला दिग्गजादयः ॥ ७० ॥
सनकादिमुनिश्रेष्ठास्त्वमेव रघुपुंगव । वसवोऽष्टौ त्रयः काला रुद्रा एकादश स्मृताः ॥ ७१ ॥
तारका द्श दिक् चैव त्वमेव रघुनंदन । सप्त द्वीपाः समुद्राश्च नगा नद्यस्तथा द्रुमाः ॥ ७२ ॥
स्थावरा जंगमाश्चैव त्वमेव रघुनायक । देवतिर्यङमनुष्याणां दानवानां तथैव च ॥ ७३ ॥
माता पिता तथा भ्राता त्वमेव रघुवल्लभ । सर्वेषां त्वं परं ब्रह्म त्वन्मयं सर्वमेव हि ॥ ७४ ॥
त्वमक्षरं परं ज्योतिस्त्वमेव पुरुषोत्तम । त्वमेव तारकं ब्रह्म त्वत्तोऽन्यन्नैव किंचन ॥ ७५ ॥
शांतं सर्वगतं सूक्ष्मं परं ब्रह्म सनातनम् । राजीवलोचनं रामं प्रणमामि जगत्पतिम् ॥ ७६ ॥
व्यास उवाच । ततः प्रसन्नः श्रीरामः प्रोवाच मुनिपुंगवम् । तुष्टोऽस्मि मुनिशार्दूल वृणीष्व वरमुत्तमम् ॥ ७७ ॥
नारद उवाच । यदि तुष्टोऽसि सर्वज्ञ श्रीराम करुणानिधे । त्वन्मूर्तिदर्शनेनैव कृतार्थोऽहं च सर्वदा ॥ ७८ ॥
धन्योऽहं कृतकृत्योऽहं पुण्योऽहं पुरुषोत्तम । अद्य मे सफलं जन्म जीवितं सफलं च मे ॥ ७९ ॥
अद्य मे सफलं ज्ञानमद्य मे सफल तपः । अद्य मे सफलं कर्म त्वत्पादांभोजदर्शनात् ।
अद्य मे सफलं सर्वं त्वन्नामस्मरणं तथा ॥ ८० ॥
त्वत्पादंभोरुहद्वंद्वसद्भक्तिं देहि राघव । ततः परमसंप्रीतः स रामः प्राहनारदम् ॥ ८१ ॥
श्रीराम उवाच । मुनिवर्य महाभाग मुने त्विष्टं ददामि ते । यत्त्वया चेप्सितं सर्वं मनसा तद्भविष्यति ॥ ८२ ॥
नारद उवाच । परं न याचे रघुनाथ युष्मत्पादाब्जभक्तिः सततं ममास्तु ।
इदं प्रियं नाथ वरं प्रयाचे पुनः पुनस्त्वामिदमेव याचे ॥ ८३ ॥
व्यास उवाच । इत्येवमीडितो रामः प्रादात्तस्मै वरान्तरम् । वीरो रामो महातेजाः सच्चिदानन्दविग्रहः ॥ ८४ ॥
अद्वैतममलं ज्ञान स्वनामस्मरणं तथा । अन्तर्दधौ जगन्नाथः पुरतस्तस्य राघवः ॥ ८५ ॥
इति श्रीरघुनाथस्य स्तवराजमनुत्तमम् । सर्वसौभाग्यसंपत्तिदायकं मुक्तिदं शुभम् ॥ ८६ ॥
कथितं ब्रह्मपुत्रेण वेदानां सुखमुत्तमम् । गुह्याद् गुह्यतं दिव्यं तव स्नेहात्प्रकीर्तितम् ॥ ८७ ॥
यः पठेच्छृणुयाद्वाऽपि त्रिसन्ध्यं श्रद्धयाऽन्वितः । ब्रह्महत्यादिपापानि तत्समानि बहूनि च ॥ ८८ ॥
स्वर्णस्तेयं सुरापानं गुरुतल्पगतिस्तथा । गोवधाद्युपपापानि अनृतात्संभवानि च ॥ ८९ ॥
सर्वैः प्रमुच्यते पापैः । कल्पायुतशतोद्भवैः । मानसं वाचिकं पापं कर्मणा समुपार्जितम् ॥ ९० ॥
श्रीरामस्मरणेनैव तत्क्षणान्नश्यति ध्रुवम् । इदं सत्यमिदं सत्यं सत्यमेतदिहोच्यते ॥ ९१ ॥
रामं सत्यं परं ब्रह्म रामात्किंचिन्न विद्यते । तस्माद्रामस्वरूपं हि सत्यं सत्यमिदं जगत् ॥ ९२ ॥
श्रीरामचन्द्र रघुपुंगव राजवर्य राजेन्द्र राम रघुनायक राघवेश ।
राजाधिराज रघुनन्दन रामचन्द्र दासोऽहमद्य भवतः शरणागतोऽस्मि ॥ ९३ ॥
वैदेहीसहितं सुरद्रमतले हैमे महामंडपे मध्येपुष्पकमासने मणिमये वीरासने सुस्थितम् ।
अग्रे वाचयति प्रभंजनसुते तत्त्वं मुनिभ्यः परं व्याख्यातं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ ९४ ॥
रामं रत्नकिरीटकुण्डलयुतं केयूरहारान्वितं सीतालंकृतवामभागममलं सिंहासनस्थं विभुम् ।
सुग्रीवादिहरीश्वरैः सुरगणैः संसेव्यमानं सदा विश्वामित्रपराशरादिमुनिभिः संस्तूयमानं प्रभुम् ॥ ९५ ॥
सकलगुणनिधानं योगिभिः स्तूयमानं भुजविजितसमानं राक्षसेंद्रादिमानम् ।
अहितनृपभयानं सीतया शोभमानं स्मर ह्रदयविमानं ब्रह्म रामाभिधानम् ॥ ९६ ॥
रघुवर तव मूर्तिमार्मके मानसाब्जे नरकगतिहरं ते नामधेयं मुखे मे ।
अनिशमतुलभक्त्या मस्तकं त्वत्पदाब्जे भवजलनिधिमग्नं रक्ष मामार्तबंधो ॥ ९७ ॥
रामरत्नमहं वंदे चित्रकूटपतिं हरिम् । कौसल्याभक्तिसंभूतं जानकीकंठभूषणम् ॥ ९८ ॥
इति श्रीसनत्कुमारसंहितायां नारदोक्तं श्रीरामचंद्रस्तवराजस्तोत्रं संपूर्णम् ।