श्रीगणेशाय नमः । अहल्योवाच ।
अहो कृतार्थाऽस्मि जगन्निवास ते पादाब्जसंलग्नरजःकणादहम् ।
स्पृशामि यत्पद्मजशंकरादिभिर्विमृग्यते रंधितमानसैः सदा ॥ १ ॥
अहो विचित्रं तव राम चेष्टितं मनुष्यभावेन विमोहितं जगत् ।
चलस्यजस्त्रं चरणादिवर्जितः संपूर्ण आनंदमयोऽतिमायिकः ॥ २ ॥
यत्पादपङकजपरागपवित्रगात्रा भागीरथी भवविरिंचिमुखान्पुनाति ।
साक्षात्स एव मम दृग्विषयो यदास्ते किं वर्ण्यते मम पुराकृतभागधेयम् ॥ ३ ॥
मर्त्यावतारे मनुजाकृतिं हरिं रामाभिधेयं रमणीयदेहिनम् ।
धनुर्धरं पद्मविशाललोचनं भजामि नित्यं न परान्भजिष्ये ॥ ४ ॥
यत्पादपंकजरजः श्रुतिभिर्विमृग्यं यन्नाभिपंकजभवः कमलासनश्च ।
यन्नामसाररसिको भगवान्पुरारिस्तं रामचन्द्रमनिशं ह्रदि भावयामि ॥ ५ ॥
यस्यावतारचरितानि विरिंचिलोके गायन्ति नारदमुखाः शिवपद्मजाद्याः ।
आनंदजाश्रुपरिषिक्तकुचाग्रसीमा वागीश्वरी च तमहं शरणं प्रपद्ये ॥ ६ ॥
सोऽयं परात्मा पुरुषः पुराण एष स्वयं ज्योतिरनंत आद्यः ।
मायातनुं लोकविमोहनीयां धत्ते परानुग्रह एष रामः ॥ ७ ॥
अयं हि विश्वोद्भवसंयमानामेकः स्वमायागुणबिंबितो यः । वि
रिंचिविष्ण्वीश्वरनामभेदान् धत्ते स्वतंत्रः परिपूर्ण आत्मा ॥ ८ ॥
नमोऽस्तु ते राम तवांघ्रिपंकजं श्रियां धृतं वक्षसि लालितं प्रियात् ।
आक्रांतमेकेन जगत्रयं पुरा ध्येयं मुनीन्द्रैरभिमानवर्जितैः ॥ ९ ॥
जगतामादिभूतस्त्वं जगत्त्वं जगदाश्रयः ।
सर्वभूतेष्वसंबद्ध एको भाति भवान्परः ॥ १० ॥
ओंकारवाच्यस्त्वं राम वाचामविषयः पुमान् ।
वाच्यवाचकभेदेन भवानेव जगन्मयः ॥ ११ ॥
कार्यकारणकर्तृत्वफलसाधनभेदतः ।
एको विभासि रामस्त्वं मायया बहुरूपया ॥ १२ ॥
त्वन्मायामोहितधियस्त्वां न जानंति तत्त्वतः ।
मानुषं त्वभिमन्यन्ते मायिनं परमेश्वरम् ॥ १३ ॥
आकाशवत्त्वं सर्वत्र बहिरंतर्गतोऽमलः । अ
सङ्गो ह्यचलो नित्यः शुद्धो बुद्धः सदव्ययः ॥ १४ ॥
योषिन्मूढाहमज्ञा ते तत्त्वं जाने कथं विभो । त
स्मात्ते शतशो राम नमस्कुर्यामनन्यधीः ॥ १५ ॥
देव मे यत्र कुत्रापि स्थिताया अपि सर्वदा ।
त्वत्पादकमले सक्ता भक्तिरेव सदाऽस्तु मे ॥ १६ ॥
नमस्ते पुरुषाध्यक्ष नमस्ते भक्तवत्सल । न
मस्तेऽस्तु ह्रषीकेश नारायण नमोऽस्तु ते ॥ १७ ॥
भवभयहरमेकं भानुकोटिप्रकाशं करधृतशरचापं कालमेघावभासम् ।
कनकरुचिरवस्त्रं रत्नवत्कुण्डलाढ्यं कमलविशदनेत्रं सानुजं राममीडे ॥ १८ ॥
स्तुत्वैवं पुरुषं साक्षाद्राघवं पुरतः स्थितम् ।
परिक्रम्य प्रणम्याशु सानुज्ञाता ययौ पतिम् ॥ १९ ॥
अहल्यया कृतं स्तोत्रं यः पठेद्भक्तिसंयुतः ।
स मुच्यतेऽखिलैः पापैः परं ब्रह्माधिगच्छति ॥ २० ॥
पुत्राद्यर्थे पठेद्भक्त्या रामं ह्रदि निधाय च ।
संवत्सरेण लभते वंध्या ह्यपि सुपुत्रकम् ॥ २१ ॥
सर्वान्कामानवाप्नोति रामचन्द्रप्रसादतः ॥ २२ ॥
ब्रह्मघ्नो गुरुतल्पगोऽपि पुरुषः स्तेयी सुरापोऽपि वा मा
तृभ्रातृविहिंसकोऽपि सततं भोगैकबद्धातुरः नित्यं स्तोत्रमिदं जपन् रघुपतिं
भक्त्या ह्रदिस्थं स्मरन् ध्यायन्मुक्तिमुपैति किं पुनरसौ स्वाचारयुक्तो नरः ॥ २३ ॥
इति श्रीमदध्यात्मरामायण उमामहेश्वरसंवादे बालकाण्डांतर्गतमहल्याविरचितं रामचंद्रस्तोत्रं संपूर्णम् ।