श्रीगणेशाय नम: । अच्युतं केशवं रामनारायणं कृष्णं दामोदरं वासुदेवं हरिम् ।
श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचंद्रं भजे ॥ १ ॥
अच्युतं केशवं सत्यभामाधव माधवं श्रीधरं राधिकाराधितम् ।
इंदिरामंदिरं चेतसा सुन्दरं देवकी नंदनं नंदजं संदधे ॥ २ ॥
विष्णवे जिष्णवे शंखिने चक्रिणे रुक्मिणीरागिणे जानकीजानये ।
बल्लवीवल्लभायार्चितायात्मने कंसविध्वंसिने वंशिने ते नम: ॥ ३ ॥
कृष्ण गोविंद हे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे ।
अच्युतानंत हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक ॥ ४ ॥
राक्षसक्षोभित: सीतया शोभितो दंडकारण्यभूपुण्यताकारण: ।
लक्ष्मणेनान्वितो वानरै: सेवितोऽगस्त्यसंपूजितो राघव:पातु माम् ॥ ५ ॥
धेनुकारिष्टकोऽनिष्टकुद्द्वेषिणां केशिकाकंसह्रद्वंशिकावादक: ।
पूतनाकोपक: सूरजाखेलनो बालगोपालक: पातु मां सर्वदा ॥ ६ ॥
विद्युद्दयोनवत्प्रस्फुरद्वाससं प्रावृडंभोदवत्प्रोल्लसद्विग्रहम् ।
वन्यया मालया शोभितोर:स्थलं लोहितांघ्रिद्वयं वारिजाक्षं भजे ॥ ७ ॥
कुंचितै: कुंतिलैर्भ्राजमानाननं रत्नमौलिं लसत्कुंडलं गंडयो: ।
हारकेयूरकं कङ्गणप्रोज्जवलं किंकिणीमंजुलं श्यामलं तं भजे ॥ ८ ॥
अच्युतस्याष्टकं य: पठेदिष्टदं प्रेमत: प्रत्यहं पुरुष: सस्पृहम् ।
वृत्तत: सुंदरं कर्तृविश्वंभरं तस्य वश्यो हरिर्जायते सत्वरम् ॥ ९ ॥
इति श्रीशंकराचार्यविरचितमच्युताष्टकं संपूर्णम् ॥
N/A