राजोवाच ।
यया गुप्त सहस्राक्ष्ह सवाहान्रिपुसैनिकान् ।
क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥१॥
भगवस्तन्ममाख्याहि वर्म नारायणात्मकम् ।
यथाऽऽततायिन शत्रून् येन गुप्तोऽजयन्मृधे ॥२॥
श्रीशुक उवाच । वृत पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते ।
नारायणाख्य वर्माह तदिहैकमना शृणु ॥३॥
विश्वरूप उवाच । धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुख ।
कृतस्वाङ्गकरन्यासो मन्त्राभ्या वाग्यत शुचि ॥४॥
नारायणमय वर्म सन्नह्येद्भय आगते ।
पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि ॥५॥
मुखे शिरस्यानुपूर्व्यादोकारादीनि विन्यसेत् ।
ॐ नमो नारायणायेति विपर्ययमथापि वा ॥६॥
करन्यास तत कुर्याद्द्वादशाक्ष्हरविद्यया ।
प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु ॥७॥
न्यसेद्धृदय ॐकार विकारमनु मूर्धनि ।
षकार तु भ्रुवोर्मध्ये णकार शिखया दिशेत् ॥८॥
वेकार नेत्रयोर्युञ्ज्यान्नकार सर्वसन्धिषु ।
मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद्बुध ॥९॥
सविसर्ग फडन्त तत् सर्वदिक्ष्हु विनिर्दिशेत् ।
ॐ विष्णवे नम इति ॥१०॥
आत्मान परम ध्यायेद्ध्येय षट्शक्तिभिर्युतम् ।
विद्यातेजस्तपोमूर्तिमिम मन्त्रमुदाहरेत् ॥११॥
ॐ हरिर्विदध्यान्मम सर्वरक्ष्हा न्यस्ताङ्घ्रिपद्म पतगेन्द्रपृष्ठे ।
दरारिचर्मासिगदेषुचाप पाशान्दधानोऽष्टगुणोऽष्टबाहु ॥१२॥
जलेषु मा रक्ष्हतु मत्स्यमूर्ति र्यादोगणेभ्यो वरुणस्य पाशात् ।
स्थलेषु मायावटुवामनोऽव्यात् त्रिविक्रम खेऽवतु विश्वरूप ॥१३॥
दुर्गेष्वटव्याजिमुखादिषु प्रभु पायान्नृसिहोऽसुरयूथपारि ।
विमुञ्चतो यस्य महाट्टहास दिशो विनेदुर्न्यपतश्च गर्भा ॥१४॥
रक्ष्हत्वसौ माध्वनि यज्ञकल्प स्वदष्ट्रयोन्नीतधरो वराह ।
रामोऽद्रिकूटेष्वथ विप्रवासे सलक्ष्ह्मणोऽव्याद्भरताग्रजोऽस्मान् ॥१५॥
मामुग्रधर्मादखिलात्प्रमादा न्नारायण पातु नरश्च हासात् ।
दत्तस्त्वयोगादथ योगनाथ पायाद्गुणेश कपिल कर्मबन्धात् ॥१६॥
सनत्कुमारोऽवतु कामदेवा द्धयशीर्षा मा पथि देवहेलनात् ।
देवर्षिवर्य पुरुषार्चनान्तरात् कूर्मो हरिर्मा निरयादशेषात् ॥१७॥
धन्वन्तरिर्भगवान्पात्वपथ्या द्द्वन्द्वाद्भयादृषभो निर्जितात्मा ।
यज्ञश्च लोकादवताञ्जनान्ता द्बलो गणात्क्रोधवशादहीन्द्र ॥१८॥
द्वैपायनो भगवानप्रबोधा द्बुद्धस्तु पाखण्डगणप्रमादात् ।
कल्कि कले कालमलात्प्रपातु धर्मावनायोरुकृतावतार ॥१९॥
मा केशवो गदया प्रातरव्या द्गोविन्द आसङ्गवमात्तवेणु ।
नारायण प्राह्ण उदात्तशक्ति र्मध्यन्दिने विष्णुररीन्द्रपाणि ॥२०॥
देवोऽपराह्णे मधुहोग्रधन्वा साय त्रिधामावतु माधवो माम् ।
दोषे हृषीकेश उतार्धरात्रे निशीथ एकोऽवतु पद्मनाभ ॥२१॥
श्रीवत्सधामापररात्र ईश प्रत्युष ईशोऽसिधरो जनार्दन ।
दामोदरोऽव्यादनुसन्ध्य प्रभाते विश्वेश्वरो भगवान् कालमूर्ति ॥२२॥
चक्र युगान्तानलतिग्मनेमि भ्रमत्समन्ताद्भगवत्प्रयुक्तम् ।
दन्दग्धि दन्दग्ध्यरिसैन्यमाशु कक्ष्ह यथा वातसखो हुताश ॥२३॥
गदेऽशनिस्पर्शनविस्फुलिङ्गे निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि ।
कूष्माण्डवैनायकयक्ष्हरक्ष्हो भूतग्रहाश्चूर्णय चूर्णयारीन् ॥२४॥
त्व यातुधानप्रमथप्रेतमातृ पिशाचविप्रग्रहघोरदृष्टीन् ।
दरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनोऽरेहृर्दयानि कम्पयन् ॥२५॥
त्व तिग्मधारासिवरारिसैन्य मीशप्रयुक्तो मम छिन्धि छिन्धि ।
चक्ष्हूषि चर्मञ्छतचन्द्र छादय द्विषामघोना हर पापचक्ष्हुषाम् ॥२६॥
यन्नो भय ग्रहेभ्योऽभूत्केतुभ्यो नृभ्य एव च ।
सरीसृपेभ्यो दष्ट्रिभ्यो भूतेभ्योऽहोभ्य वा ॥२७ ॥
सर्वाण्येतानि भगवन्नामरूपास्त्रकीर्तनात् ।
प्रयान्तु सक्ष्हय सद्यो ये न श्रेयप्रतीपका ॥२८॥
गरुडो भगवान् स्तोत्रस्तोभश्छन्दोमय प्रभु ।
रक्ष्हत्वशेषकृच्छ्रेभ्यो विष्वक्सेन स्वनामभि ॥२९ ॥
सर्वापद्भ्यो हरेर्नामरूपयानायुधानि न ।
बुद्धीन्द्रियमनप्राणान्पान्तु पार्षदभूषणा ॥३०॥
यथा हि भगवानेव वस्तुत सदसच्च यत् ।
सत्येनानेन न सर्वे यान्तु नाशमुपद्रवा ॥३१॥
यथैकात्म्यानुभावाना विकल्परहित स्वयम् ।
भूषणायुधलिङ्गाख्या धत्ते शक्ती स्वमायया ॥३२॥
तेनैव सत्यमानेन सर्वज्ञो भगवान् हरि ।
पातु सर्वै स्वरूपैर्न सदा सर्वत्र सर्वग ॥३३॥
विदिक्ष्हु दिक्ष्हूर्ध्वमध समन्ता दन्तर्बहिर्भगवान्नारसिह ।
प्रहापयॅलोकभय स्वनेन स्वतेजसा ग्रस्तसमस्ततेजा ॥३४॥
मघवन्निदमाख्यात वर्म नारायणात्मकम् ।
विजेष्यस्यञ्जसा येन दशितोऽसुरयूथपान् ॥३५॥
एतद्धारयमाणस्तु य य पश्यति चक्ष्हुषा ।
पदा वा सस्पृशेत्सद्य साध्वसात्स विमुच्यते ॥३६॥
न कुतश्चिद्भय तस्य विद्या धारयतो भवेत् ।
राजदस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हिचित् ॥३७॥
इमा विद्या पुरा कश्चित्कौशिको धारयन् द्विज ।
योगधारणया स्वाङ्ग जहौ स मरुधन्वनि ॥३८॥
तस्योपरि विमानेन गन्धर्वपतिरेकदा ।
ययौ चित्ररथ स्त्रीभिर्वृतो यत्र द्विजक्ष्हय ॥३९ ॥
गगनान्न्यपतत्सद्य सविमानो ह्यवाक्षिरा ।
स वालखिल्यवचनादस्थीन्यादाय विस्मित ।
प्रास्य प्राचीसरस्वत्या स्नात्वा धाम स्वमन्वगात् ॥४०॥
श्रीशुक उवाच । य इद शृणुयात्काले यो धारयति चादृत ।
त नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ॥४१॥
एता विद्यामधिगतो विश्वरूपाच्छतक्रतु ।
त्रैलोक्यलक्ष्ह्मी बुभुजे विनिर्जित्य मृधेऽसुरान् ॥४२॥
इति श्रीमद्भागवतमहापुराणे पारमहस्या सहिताया षष्ठस्कन्धे नारायणवर्मकथन नामाष्टमोऽध्याय ॥