श्रीगणेशायनम: ॥
यस्मादिदं जगदुदेतिचतुर्मुखाद्यं यस्मिन्नवस्थितमशेषमशेषमूले ।
यत्रोपयाति विलयं च समस्तमंते दृग्गोचरो भवतुमेऽद्य स दीनबन्धु: ॥ १ ॥
चक्रं सहस्त्रकरचारु करारविंदे गुर्वी गदा दरवरश्च विभाति यस्य ।
पक्षींद्रपृष्ठपरिरोपितपादपद्मो दृग्गोचरो ० ॥ २ ॥
येनोद्धता वसुमती सलिले निमग्ना नग्ना च पांडववधू: स्थगिता दुकूलै: ।
संमोचितो जलचरस्य मुखाद्गजेंद्रो दृग्गो० ॥ ३ ॥
यस्यार्द्रदृष्टिवशतस्तु सुरा:समृद्धिं कोपेक्षणेन दनुजा विलयं व्रजंति ।
भीताश्चरेति च यतोऽर्कयमानिलाद्या दृग्गो ० ॥ ४ ॥
गायंति सामकुशला यमजं मखेषु ध्यायंति धीरमतयो यतयो विविक्ते ।
पश्यंति योगिपुरुषा: पुरुषं शरीरे दृग्गो० ॥ ५ ॥
आकाररूपगुणयोगविवर्जितोऽपि भक्तानुकंपननिमित्तगृहीत मूर्ति: ।
य: सर्वगोऽपि कृतशेषशरीरशय्यो दृग्गो: ० ॥ ६ ॥
यस्यांघ्रिपंकजमुनींद्रयोगीन्द्रवृंदैराराध्यते भवदवानलदाहशंत्यै ।
सर्वापराधमविचिंत्य ममाखिलात्मा दृग्गो ०॥ ७ ॥
मन्नामकीर्तनपर: श्वपचोऽपि नूनंहित्वाखिलं कलिमलं भुवनं पुनाति ।
दग्ध्वा ममाघमखिलं करुणेक्षणेन दृग्गो० ॥ ८ ॥
दीनबन्ध्वष्टकं पुण्यं ब्रह्मानन्देन भाषितम् ।
य: पठेत्प्रयतो नित्यं तस्य विष्णु: प्रसीदति ॥ ९ ॥
इति श्रीपरमहंस स्वामिब्रह्मानंदविरचितं श्रीदीनबन्ध्वष्टकं सम्पूर्णम् ॥