श्रीगणेशाय नम: ॥ चिदानन्दाकारं श्रुतिसरससारं समरसं निराधाराधारं भवजलधिपारं परगुणम् ।
रमाग्रीवाहारं व्रजवनविहारं हरनुतं सदा तं गोविंदं परमसूखकंदं भजत रे ॥ १ ॥
महांभोधिस्थानं स्थिरचरनिदानंदिविजपं सुधाधारापानं विहगपतियानं यमरतम् ।
मनोज्ञंसुज्ञानं मुनिजननिधानं ध्रुवपदं सदा० ॥ २ ॥
धिया धीरैर्ध्येयं श्रवणपुटपेयं यतिवरैर्महावाक्यैर्ज्ञेयं त्रिभुवनविधेयं विधिपरम् ।
मनोमानामेयं सपदि ह्रदि नेयं नवतनुं सदा० ॥ ३॥
महामायाजालं विमलवनमालं मलहरं सुभालं गोपालं निहतशिशुपालं शशिमुखम् ।
कलातीतं कालं गतिहतमरालं मुररिपुं सदा० ॥ ४ ॥
नभोबिम्बस्फीतं निगमगणतीतं समगतिं सुरौघे संप्रीतं दितिजविपरीत पुरिशयम् ।
गिरां पंथातीतं स्वदितनवतीतं नयकरं सदा० ॥ ५ ॥
परेशं पद्मेशं शिवकमलजेशं शिवकरं द्विजेशं देवेशं तनुकुटिलकेशं कलिहरम् ।
खगेशं नागेशं निखिलभुवनेशं नगधरं सदा० ॥ ६ ॥
रमाकांतं कान्तं भवभयलयांतं भवसुखं दुराशांतं शांतं निखिलह्रदि भांतं भुवनपम् ।
विवादांतंदांतं दनुजनिचरांतं सुचरितं सदा० ॥ ७ ॥
जगज्ज्येष्ठं श्रेष्ठं सुरपतिकनिष्ठं क्रतुपतिं बलिष्ठं भूयिश्ष्ठं त्रिभुवनवरिष्ठं वरवहम् ।
स्वनिष्ठं धर्मिष्ठं गुरुगुणगरिष्ठं गुरुवरं सदा० ॥ ८ ॥
गदापाणेरे तद्दुरितदलनं दु:खशमनं विशुद्धात्मा स्तोत्रं पठति मनुजो यस्तु सततम् ।
सभुक्त्वाभोगौघं चिरमिह ततोऽपास्तवृजिनो वरं विष्णो: स्थानं व्रजंति खलु वैकुंठभुवनम् ॥ ९ ॥
इति श्रीपरमहंसस्वामि ब्रह्मानंदविरचितं श्रीगोविंदाष्टकं सम्पूर्णम् ॥