श्रीगणेशाय नम: ॥
ध्येयं वदंति शिवमेव हि केचिदन्ये शक्तिं गणेशमपरे तु दिवाकरं वै ।
रूपैस्तु तैरपि विभासि यतस्त्वमेकस्तत्स्मात्त्वमेव शरणं मम शंखपाणे ॥ १ ॥
नो सोदरो न जनको जननी न जाया नैवात्मजो न च कुलं विपुलं बलं वा ।
संदृश्यते न किल कोऽपि सहायको मे तस्मात् ० ॥ २ ॥
नोपासिता मदमपास्य मया महांतस्तीर्थानिचास्तिकधिया नहि सेवितानि ।
देवार्चनं च विधिवन्न कृतं कदापीदुर्वासना मम सदाऊ० ॥ ३ ॥
परिकर्षयंति चित्तं शरीरमपि रोगगणा दहंति ।
संजीवनं च परहस्तगतं सदैव तस्मा ० ॥ ४ ॥
पूर्व कृतानि दुरितानि मया तु यानि स्मृत्वाखिलानि ह्रदयंपरिकंपते मे ।
ख्याता च ते पतितपावनता तु तस्मात्तस्मा ० ॥ ५ ॥
दु:खं जराजननजं विविधाश्च रोगा: काकश्वसूकरजनिर्निरये च पात: ।
ते विस्मृते: फलमिदं विततं हि लोके तस्मा ० ॥ ६ ॥
नीचोऽपि पापवलितोऽपि विनिंदितोऽपि ब्रूयात्तवाहमिति यस्तु किलैकवारम् ।
तंयच्छसीश निजलोकमिति व्रतं ते तस्मा ० ॥ ७ ॥
वेदेषु धर्मवचनेषु तथागमेषु रामायणेऽपि च पुराणकदंबके वा ।
सर्वत्र सर्वविधिना अदितस्त्वमेव तस्मा ० ॥ ८ ॥
इति श्रीपरमहंसस्वामि ब्रह्मानन्दविरचितं श्रीहरिशरणाष्टकं सम्पूर्णम् ॥