श्रीगणेशाय नम: ॥
सच्चिदानंदरूपाय भक्तानुग्रहकारिणे मायानिर्मितविश्वाय महेशाय नमो नम: ॥ १ ॥
रोगा हरंति सतत प्रबला: शरीरं कामादयोप्यनुदिनं प्रदहंति चित्तम् ।
मृत्युश्चनृत्यति सदा कलयन्दिनानि तस्मात्त्वमद्यशरणं मम दीनबधो ॥ २ ॥
देहो विनश्यति सदा परिणामशीलश्चित्तं च खिद्यति सदा विषयानुरागि ।
बुद्धि: सदा हि रमते विषयेषु नांतस्तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ ३ ॥
आयुर्विनश्यति यथामघटस्थतोयं विद्युत्प्रभेव चपला बत यौवनश्री: ।
वृद्धा प्रधावति यथा मृगराजपत्नी तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥ ४ ॥
आयाव्द्ययो मम भवत्यधिको विनीते कामादयो हि बलिनो निबला: शमाद्या: ।
मृत्युर्यदा तुदति मां बत किं वदेयं तस्मात् ० ॥ ५ ॥
तप्तं तपो नहि कदापि मयेह तन्वा वाण्या तथा नहि कदापि तपश्च तप्तम् ।
मिथ्याभिभाषणपरेण न मानसं हि तस्मात् ० ॥ ६ ॥
स्तब्धं मनो मम सदा नहि याति सौम्यं चक्षुश्च मे न तव पश्यति विश्वरूपम् ।
वाचा तथैव न वदेन्मम सौम्यवाणीं तस्मात् ० ॥ ७ ॥
सत्त्वं न मे मनसि याति रजस्तमोभ्यां विद्धे तदा कथमहोशुभकर्मवार्ता ।
साक्षात्परंपरतया सुखसाधनं तत्तस्मात् ॥ ८ ॥
पूजा कृता नहि कदाऽपि मया त्वदीयामत्र त्वदीयमपि मे न जपेद्रसज्ञा ।
चित्तं नमे स्मरति ते चरणौ ह्यवाप्य तस्मात् ० ॥ ९ ॥
यज्ञो न मेऽस्ति हुतिदानदयादि युक्तो ज्ञानस्य साधनगणौ न विवेकमुख्य: ।
ज्ञानं क्व साधनगणेनबिना क्व मोक्षस्तस्मात् ० ॥ १० ॥
सत्संगतिर्हि विदिता तव भक्ति हेतु: साऽप्यद्य नास्ति बत पंडितमानिनो मे ।
तामंतरेण नहि सा क्वच बोधवार्ता तस्मात् ० ॥ ११ ॥
दृष्टिर्न भूतविषया समताभिधाना वैषम्यमेव तदियंविषयी करोति ।
शांति: कुतो मम भवेत्समता न चेत्स्यात्तस्मात् ० ॥ १२ ॥
मैत्री समेषु न च मेऽस्ति कदापि नाथ दीने तथा न करूणा मुदिता च पुण्ये ।
पापेऽनुपेक्षणवतो मम मुत्कथं स्यात्तस्मात् ० ॥ १३ ॥
नेत्रादिकं मम बहिर्विषयेषु सक्तं नांतर्मुखं भवति तामविहाय तस्य ।
क्वांतर्मुखत्वमपहाय सुखस्य वार्ता तस्मात् ० ॥ १४ ॥
त्यक्तं गृहाद्यपि मम भवतापशांत्यै नासीदसौ ह्रतह्रदो मम मायया ते ।
सा चाधुना किमु विधास्यति नेति जाने तस्मात् ० ॥ १५ ॥
प्राप्ता धनं गृहकुटुम्बगजाश्व दारा राज्यं यदैहिकमथेन्द्रपुरश्च नाथ: ।
सर्व विनश्वरमिदं न फलाय कस्मै तस्मात् ० ॥ १६ ॥
प्राणान्निरुद्धय विधिना न कृतो हि योगो योगं विनाऽस्ति मनस: स्थिरता कुतो मे ।
तां वै विना मम न चेतसि शांतिवार्ता तस्मात् ० ॥ १७ ॥
ज्ञानं यथा मम भवेत्कृपया गुरूणां सेवां तथा न विधिनाऽकरवं हि तेषाम् ।
सेवाऽपि साधनतया विदितास्ति चित्ते तस्मात् ० ॥ १८ ॥
तीर्थादिसेवनमहाविधिना हि नाथ नाकारि येन मनसो मम शोधनं स्यात् ।
शुद्धिं विना न मनसोऽवगमापवर्गो तस्मात् ० ॥ १९ ॥
वेदांतशीलनमपि प्रमितिं करोतिब्रह्मात्मन: प्रमितिसाधनसंयुतस्य ।
नैवाऽस्ति साधनलवो मयि नाथ तस्यास्तस्मात् ० ॥ २० ॥
गोविंद शंकर हरे गिरिजेश महेश शम्भो जनार्दन गिरीश मुकुन्द साम्ब ।
नान्यागतिर्मम कथंचन वां विहाय तस्मात्प्रभो मम गति:कृपया विधेया ॥ २१ ॥
एतत्स्तवं भगवदाश्रयणाभिधानं ये मानवा: प्रतिदिनं प्रणता: पठंति ।
ते मानवा भवरतिं परिभूय शांतिं गच्छंति किंच परमात्मनि भक्तिमद्धा ॥ २२ ॥
इति श्रीमन्मौक्तिकरामोदासीनशिष्यब्रह्मानन्दविरचितं भगवच्छरणस्तोत्रं सम्पूर्णम् ॥