श्रीगणेशाय नम: ।
स्तोष्ये भक्त्या विष्णुमनादिं जगदादिं यस्मिन्नतत्संसृतिचक्रं भ्रमतीत्थम् ।
यस्मिन् इष्टे नश्यति तत्संसृतिचक्रं तं संसारध्वांतविनाशं हरिमीडे ॥ १ ॥
यस्यैकांशादित्थमशेषं जगदेतत्प्रादुर्भूतं येन पिनद्धं पुनरित्थम् ।
येन व्याप्तं येन विबुद्धे सुखदु:खैस्तं संसारध्वांतविनाशं हरिमीडे ॥ २ ॥
सर्वज्ञो यो यश्च हि सर्व: सकलो यो यश्चानंदोऽनंतगुणो यो गुणधामा ।
यश्चाव्यक्तो व्यस्तसमस्त: सदसद्यस्तं संसारध्वां० ॥ ३ ॥
यस्मादन्यन्नास्त्यपि नैनं परमार्थं दृश्यादन्यो निर्विषयज्ञानमयत्वात् ।
ज्ञातृज्ञानज्ञेयविहीनोपि सदाज्ञस्तं संसार० ॥ ४ ॥
आचार्येभ्यो लब्धसुसूक्ष्माच्युततत्त्वाद्वैराग्येणाभ्यासबलाच्चैव द्रढिम्ना ।
भक्त्यैकाग्रध्यानपरा यं विदुरीशं तं संसार० ॥ ५ ॥
प्राणानायम्योमिति चित्तं ह्रदि द्ध्वा नान्यत्स्मृत्वा तत्पुनरत्रैव विलाप्य ।
क्षीणे चित्ते भादृशिरस्मीति विदुर्यं तं संसार० ॥ ६ ॥
यं ब्रह्माख्यं देवमनन्यं परिपूर्णं ह्रत्स्थं भक्तैर्लभ्यमजं सूक्ष्ममतर्क्यम् ।
ध्वात्वात्मस्थं ब्रह्माविदो यं विदुरीशं तं संसार० ॥ ७ ॥
मात्रातीतं स्वात्मविकाशात्मविबोधं ज्ञेयातीतं ज्ञानमयं ह्रद्युपलभ्यम् ।
भावग्राह्यानंदमनन्यं च विदुर्यंत संसार० ॥ ८ ॥
यद्यद्वेद्यं वस्तु सतत्त्वं विषयाख्यं तत्तद्ब्रह्मैवेति विदित्वा तदहं च ।
ध्यायंत्येवं यं सनकाद्या मुनयोऽजं तं संसार० ॥ ९ ॥
यद्यद्वेद्यं तत्तदहं नेति विहाय स्वात्मज्योतिर्ज्ञानमयानंदमवाप्यतस्मिन्नस्मीत्यात्मविदो यंविदुरीशं
तं संसार० ॥ १० ॥
हित्वाहित्वा दृश्यमशेषं सविकल्पं मत्वा शिष्टं भादृशिमात्रं गगनाभम् ।
त्यक्त्वा देहं यं प्रविशंत्यच्युतभक्तास्तं संसार:० ॥ ११ ॥
सर्वत्रास्ते सर्व शरीरी न च सर्व: सर्वं वेत्त्येवेह न यं वेत्ति च सर्वं: ॥
सर्वत्रांतर्यामितयेत्थं यमयन्यस्तं संसार० ॥ १२ ॥
सर्वं दृष्ट्वा स्वात्मनि युक्त्या जगदेतद्दृष्ट्वात्मानं चैवमजं सर्वजनेषु ।
सर्वात्मेकोऽस्मीतिविदुर्यं जन ह्रत्स्थं तं संसार० ॥ १३ ॥
सर्वत्रैक: पश्यति जिघ्रत्यथ भुंक्ते स्प्रष्टा श्रोता बुध्याति चेत्याहुरिमंयम् ।
साक्षी चास्ते कर्तृषु पश्यन्निति चान्ये तं संसार० ॥ १४ ॥
पश्यन् श्रृण्वन्नत्र विजानन् रसयन् सन् जिघ्रन् बिभ्रद्देहमिमं जीवतयेत्थम् ।
इत्यात्मानं यं विदुरीशं विषयज्ञं तं सं० ॥ १५ ॥
जाग्रद्दृष्ट्वा स्थूलपदार्थानथ मायां दृष्ट्वा स्वप्नेऽथापि सुषुप्तौ सुखनिद्राम् ।
इत्यात्मानं वीक्ष्य मुदास्ते च तुरीये तं संसार० ॥ १६ ॥
पश्यन् शुद्धोऽप्यक्षर एको गुणभेदान्नानाकारान् स्फटिकवद्भाति विचित्र: ।
भिन्नश्छिन्नश्चायमज: कर्मफलैर्यस्तं ० संसार ॥ १७ ॥
ब्रह्मा विष्णु रुदहुताशौ रविचंद्राविंद्रो वायुर्यज्ञ इतीत्थं परिकल्प्य ।
एकं सन्तं यं बहुधाहुर्मतिभेदात्तं संसार० ॥ १८ ॥
सत्यं ज्ञानं शुद्धमनंतं व्यतिरिक्तं शांतं गूढं निष्कलमानंदमनन्यम् ।
इत्याहादौ यं वरुणोऽसौ भृगवेऽजं तं संसार० ॥ १९ ॥
कोशानेतान्पंच रसादीनति हाय ब्रह्मास्मीति स्वात्मनि निश्चित्य दृशिस्थ: ।
पित्रादिष्टो वेद भृगुर्यं यजुरन्ते तं संसार० ॥ २० ॥
येनाविष्टो यस्य च शक्त्या यदधीन: क्षेत्रज्ञोऽयं कारयिता जन्तुषु कर्तु: ।
कर्ता भोक्तात्मात्र हि चिच्छक्त्याधिरूढस्तं संसार० ॥ २१ ॥
सृष्ट्वा सर्व स्वात्मतयैवेत्थमतर्क्यं व्याप्याथान्त: कृत्स्नमिदं सृष्टमशेषम् ।
सच्चत्यच्चाभूत्परमात्मा स य एकस्तं संसार० ॥ २२ ॥
वेदान्तैश्चाध्यात्मिकशास्त्रैश्च पुराणै: शास्त्रैश्चान्यै सात्वततंत्रैश्च यमीशम् ।
दृष्ट्वाथांतश्चेतसि बुद्ध्वा निविशुर्यं तं संसार० ॥ २३ ॥
श्रद्धाभक्तिध्यानशमाद्यैर्यतमानैर्ज्ञातुं शक्यो देव इहैवाशु य ईश: ।
दुर्विज्ञेयो जन्मशतेश्चापि विनातैस्तं संसार० ॥ २४ ॥
यस्या तर्क्यं स्वात्मविभूते: परमाथ सर्वंखल्वित्यत्र निरुक्तं श्रुतिविद्भि: तज्जादित्वादब्धितरंगामभिन्नं
तं संसार० ॥ २५ ॥
दृष्ट्वा गीतास्वक्षरतत्त्वं विधिनाजं भक्त्या गुर्व्यालभ्या ह्रदिस्थं दृशिमात्रम् ।
ध्यात्वा तस्मिन्नस्म्यहमित्यत्र विदुर्यं तं संसार० ॥ २६ ॥
क्षेत्रज्ञत्वंप्राप्यविभु: पंचमुखैर्योभुंक्तऽजस्रं भोग्यपदार्थान् प्रकृतिस्थ: क्षेत्रक्षेत्रेऽप्स्वन्दुवदेको
बहुधाऽऽस्ते तं संसार० ॥ २७ ॥
युक्त्यालोड्यव्यासवचांस्यत्र हि लभ्य: क्षेत्रक्षेत्रज्ञांतरविद्भि: पुरुषाख्य: ।
योऽहंसोऽहंसोऽस्म्यहमेवेति विदुर्यं त सं० ॥ २८ ॥
एकीकृत्यानेकशरीरस्थमिमं ज्ञं यं विज्ञायेहैव स एवाशु भवन्ति ।
यस्मिल्लीनानेह पुनर्जन्म लभते त संसार० ॥ २९ ॥
द्वंद्वैकत्वंयच्च मधुब्राह्मणवाक्यै:कृत्वा शक्रोपासनमासाद्यविभूत्या ।
योऽसौ सोहंसोऽस्म्यहमेवेति विदुर्यं तं सं० ॥ ३० ॥
योऽयं देवे चेष्टायितांत:करणस्थसूर्ये चासौ तापयिता सोऽस्म्यहमेव ।
इत्यात्मैक्योपासनया यं विदुरीशं तं संसार० ॥ ३१ ॥
विज्ञानांशो यस्य सत: शक्त्यधिरूढो बुद्धिर्बुध्यत्यत्र बहिर्बोध्यपदार्थान् ।
नैवान्तस्थं बुध्यति यं बोधयितारं तं सं० ॥ ३२ ॥
कोऽयं देहे देव इतीत्थं सुविचार्य ज्ञाता श्रोता नन्दयिता चैष हि देव: ।
इत्यालोच्य ज्ञाशं इहास्मीतिविदुर्यं तं संसार० ॥ ३३ ॥
को ह्येवान्यादात्मनि न स्यादयमेष ह्येवानंद: प्राणिति चापानिति चेति ।
इत्यस्तित्वं वक्त्युपपत्त्या श्रुतिरेषा तं संसा० ।
को ह्येवान्यादात्मनि न स्यादयमेष ह्येवानंद: प्राणिति चापानिति चेति ।
इत्यस्तित्वं वक्त्युपपत्त्या श्रुतिरेषा तं संसा० ॥ ३४ ॥
प्राणो वाहं वाक्श्रवणादीनि मनो वा बुद्धिर्वादं व्यस्त उताहोऽपि समस्त: ।
इत्यालोच्य ज्ञप्तिरिहास्मीति विदुर्यं तं संसार० ॥ ३५ ॥
नाहं प्राणोनैव शरीरे न मनोऽहेनाहं बुद्धिर्नाहमहंकारधियौ च ।
योऽत्र ज्ञांश: सोऽस्म्यहमेवेति विदुर्यं तं सं० ॥ ३६ ॥
सत्तामात्रं केवलविज्ञानमजं सत्सूक्ष्मं नित्यं तत्त्वमसीत्यात्मसुताय ।
साम्नामंते प्राह पिता यं विभुमाद्यं तं संसार० ॥ ३७ ॥
मूर्त्तामूर्त्ते पूर्वमुपोह्याथ समाधौ दृश्यं सर्वं नेति च नेतीति विहाय ।
चैतन्यांशे स्वात्मनि सन्तं च विदुर्यं तं संसार० ॥ ३८ ॥
ओतं प्रोतं यत्र च सर्वं गगनांतंयोऽस्थूलानण्वादिषु सिद्धोऽक्षरसंज्ञ: ।
ज्ञाताऽतोन्यो नेत्युपलभ्यो नच वेद्यस्तं संसा० ॥ ३९ ॥
तावत्सर्वं सत्यमिवाभाति यथैतद्यावत्सोऽस्मीत्यात्मनि यो ज्ञो नहि दृष्ट: ।
दृष्टे तस्मिन् सर्वमसत्यं भवतीदं तं संसार० ॥ ४० ॥
रागामुक्तं लोहयुते हेमयथाग्नौ योगाष्टांगैरुज्ज्वलितज्ञनमयाग्नौ ।
दग्ध्वात्मानं ज्ञं परिशिष्टं च विदुर्यं तं संसार० ॥ ४१ ॥
यं विज्ञानज्योतिषमाद्यं सविभातं ह्रद्यर्केन्द्वग्न्योकसमीड्यं तडिदाभम् भक्त्याराध्येहैव ।
विशंत्यात्मनि संतं तं संसार० ॥ ४२ ॥
पायाद्भक्तं स्वात्मनि संतं तं पुरुषं यो भक्त्या स्तौतीत्यांगिरसं विष्णुरिमं माम् ।
इत्यात्मानं स्वात्मनि संह्रत्य सदेकस्तं संसा० ॥ ४३ ॥
इत्थं स्तोत्रं भक्तजनेड्यं भवभीतध्वांतार्काभं भगवत्पादीयमिदं य: ।
विष्णोर्लोकं पठति शृणोति व्रजति ज्ञो ज्ञानं ज्ञेयं स्वात्मनि चाप्नोति मनुष्य: ॥ ४४ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छकराचार्यविरचिता हरिस्तुति: समाप्त ॥
इति श्रीविष्णुस्तोत्राणि ॥२९ ॥