श्रीगणेशाय नम: ॥
वन्दे मुकुन्दमरविन्ददलायताक्षं कुन्देन्दुशंखदशनं शिशुगोपवेषम् ।
इंद्रादिदेवगणवंदितपादपीठं वृन्दावनालयमहं वसुदेवसूनुम् ॥ १ ॥
श्रीवल्लभेति वरदेति दयापरेति भक्तिप्रियेति भवलुंठनको विदेति ।
नाथेति नागशयनेतिजगन्निवासेत्यालापिनं प्रतिदिनं कुरु मां मुकुंद ॥ २ ॥
जयतु जयतु देवो देवकीनन्दनोऽयं जयतु जयतु कृष्णो वृष्णिवंशप्रदीप: ।
जयतु जयतु मेघश्यामल:कोमलांगो जयतु जयतु पृथ्वीभारनाशो मुकुन्द: ॥ ३ ॥
मुकुन्द मूर्ध्ना प्रणिपत्य याचे भवंतमेकांतमियन्तमर्थम् ।
अविस्मृतिस्त्वच्चरणारविंदे भवे भवे मेऽस्तु तव प्रसादात् ॥ ४ ॥
श्रीगोविंदपदांभोजमधु नो महदद्भुतम् । तत्पायिनो न मुंचंति मुंचंति यदपायिन: ॥ ५ ॥
नाहं वन्दे तव चरणयोर्द्वद्वमद्वंद्वहतो: कुंभीपाकंगुरुमपि हरे नारकं नापनेतुम् ।
रम्यारामामृदुतनुलता नंदने नापि रंतुं भावे भावे ह्रदयभवने भावयेयं भवन्तम् ॥ ६ ॥
नास्था धर्मे न वसुनिचये नैवकामोपभोगे यद्भवं तद्भवतु भगवन्पूर्वकर्मानुरूपम् ।
एतत्प्रार्थ्य मम बहु मतं जन्मजन्मांतरेऽपि त्वत्पदांभोरुहयुगगता निश्चला भक्तिरस्तु ॥ ७ ॥
दिवि वा भुवि वा ममास्तु वासो नरके वा नरकांतक प्रकामम् ।
अवधीरितशारदारविंदौ चरणौ ते मरणे विचिंतयामि ॥ ८ ॥
सरसिजनयने सशंखचक्रे मुरभिदि मा विरमेह चित्तरंतुम् ।
सुखतरमपरं न जातु जाने हरिचरणस्मरणामृतेन तुल्यम् ॥ ९ ॥
मा भैर्मंद मनो विचिंत्य बहुधा यामीश्चिरं यातना नैवामि प्रवदंति पापरिपव: स्वामी ननु श्रीधर: ।
आलस्यं व्यपनीय भक्तिसुलभे ध्यायस्व नारायणं लोकस्य व्यवसनापनोदनकरो दासस्य किं न क्षम: ॥ १० ॥
भवजलधिगतानां द्वंद्ववाताहतानां सुतदुहितृकलत्रत्राण भारावृतानाम् ।
विषमविषयतोये मज्जतामप्लवानां भवति शरणमेको विष्णुपोतो नराणाम् ॥ ११ ॥
रजसि निपतितानां मोहजालावृतानां जननमरण दोलादुर्गसंसर्गगाणाम् ।
शरणमशरणानामेक एवातुराणां कुशलपथनियुक्तश्चक्रपाणिर्नराणाम् ॥ १२ ॥
अपराधसहस्त्रंसंकुलंपतितं भीमभवार्णवोदरे अगतिं शरणागतं हरे कृपया केवलमात्मसात्कुरु ॥ १३ ॥
मा मे स्त्रीत्वं माच मे स्यात्कुभावो मा मूर्खत्वं मा कुदेशेषु जन्म।
मिथ्यादृष्टिर्मा च मे स्यात्कदाचिज्जातौ जातौ विष्णुभक्तो भवेयम् ॥ १४ ॥
कायेन वाचा मनसेन्द्रियैश्च बुद्धयात्मना वानुसृत: स्वभावात् ।
करोमि यद्यत्सकलं परस्मै नारायणायैव समर्पयामि ॥ १५ ॥
यत्कृतं यत्करिष्यामि तत्सर्व न मया कृतम् ।
त्वया कृतं तु फलभुक्त्वमेव मधुसूदन ॥ १६ ॥
भवजलधिमगाधं दुस्तरं निस्तरयं कथमहमिति चेतो मा स्म गा: कातरत्वम् ।
सरसिजदृशि देवे तारकी भक्तिरेका नरकभिदि निषण्णा तारयिष्यत्यवश्यम् ॥ १७ ॥
तृष्णातोये मदनपवनोद्भूतमोहोर्मिमाले दारावर्ते तनयसहजग्राहसंघाकुले च ।
संसाराख्ये महति जलधौ मज्जतां नस्त्रिधामन्पादांभोजे वरद भवतो भक्तिभावं प्रदेहि ॥ १८ ॥
पृथ्वी रणुरणु: पयांसि कणिका: फल्गु: स्फुलिंगो लघुस्तेजो नि:श्वसनं मरुत्तनुतरं रंध्रं सुसूक्ष्मं नभ: ।
क्षुद्रा रुद्रपितामहप्रभृतय: कीटा: समस्ता: सुरा दृष्टा यत्र स तारको विजयते श्रीपादधूलीकण: ॥ १९ ॥
आम्नायाभ्यसनान्यरण्यरुदितं कृच्छव्रतान्यन्वहं मेदश्छेदपदानि पूर्तविधय: सर्व हुतं भस्मानि ।
तीर्थानामवगाहनानि च गजस्नानं विना यत्पदद्वद्वांभोरुहसंस्तुतिं विजयते देव: स नारयण ॥ २० ॥
आनन्द गोविंद मुकुन्द राम नारायणानन्त निरामयेति ।
वक्तुं समर्थोऽपि न वक्ति कश्चिदहो जनानां व्यसनानि मोक्षे ॥ २१ ॥
क्षीरसागरतरंगसीकरासारतारकितचारुमूर्तये । भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नम: ॥ २२ ॥
इति श्री श्रीकुलशेखरण राज्ञा विरचिता मुकुंदमाला संपूर्णा ॥